SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ तदा च मथुरापुर्यामकस्माद्रामकृष्णयोः। निपतिष्यत्यायतनं वाताहतजरद्रुवत् ॥ ८० ॥ क्रोधमानमायालोभाः सदा काष्ठे चुणा इव । नैसर्गिका भविष्यन्ति तस्मिन् करतराशये ॥ ८१ ॥ चौरा राजविरोधो राभयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च भविष्यन्ति तदा खलु ॥ ८२ ॥ कुमारोऽष्टादशाब्दानि तावन्त्येव च डामरी । ततः परं प्रचंडात्मा राजा कल्की भविष्यति ॥ ८३ ॥ नगरे पर्यटस्तत्र पंच स्तूपानिरीक्ष्य सः। परिप्रक्ष्यति पार्श्वस्थान केनते कारिता इति ॥ ८४॥ कथयिष्यन्ति तेऽप्येवं पुराऽऽसीद्विश्वविश्रुतः । नन्दो नाम क्षितिपतिर्धनैर्धनदसनिमः ॥ ८५ ॥ हिरण्यमस्ति स्तूपेषु तेनेह निहितं बहु । नाऽऽदातुं तत्क्षमः कोपि बभूव पृथिवीपतिः ॥ ८६ ॥ कल्किराजस्तदाकर्ण्य भूरिलोभो निसर्गतः । खानयिष्यति नान् स्तूपान् हिरण्यं च ग्रहीष्यति ।। ८७ ॥ सर्वतोऽपि पुरं तच सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद्गणयिष्यति ॥ ८ ॥ कल्किना खान्यमानायास्तदा च स्वपुरावनेः। नाम्ना लवणदेवो गोरुत्थास्यति शिलामयी ॥ ८॥ चतुष्पधेऽवस्थिता सा भिक्षार्थमटतो मुनीन् । तत्मातिहार्याच्छंगाग्रभागेणाघदयिष्यति ॥२०॥ स्थविराश्च वदिष्यन्ति भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं सत् क्वापि बजतान्यतः ॥ ११ ॥ श्रुत्वा तत्केऽपि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिस्लुब्धा वक्ष्यन्त्यदः खलु ॥ १२ ॥ १ तत्कांत ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy