SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ॥ अथ त्रयोदशः सर्गः ॥ अथ तन्त्र सुराश्चकुर्वत्रितयभूषितम् । रम्यं समवसरणं स्वामिनो देशनासदः ॥ १॥ ज्ञात्वा निजायुःपर्यन्तमन्तिमा देशनां प्रभुः। कर्तुं तस्मिन्नुपाविक्षत् सुरासुरनिषेवितः ॥२॥ स्वामिन समवसतं ज्ञात्वाऽपापापुरीपतिः । हस्तिपालः समागत्य नत्वा च ममुपाविशत् ॥३॥ शुश्रूषमाणास्तत्रास्थुर्यथास्थानं सुरादयः। एत्य नत्वा सहस्राक्ष इति स्वामिनमस्तवीत् ॥ ४ ॥ धर्माधों विना नांगं विनांगेन मुखं कुतः । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥५॥ अदेहस्य जगत्सर्गे प्रवृत्तिरपि नोचिता । न च प्रयोजनं किंचित् स्वातंत्र्यान्न पराऽऽज्ञया ॥६॥ क्रीडया चेत्प्रवतेत रागवान् स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं मुजेत् ॥७॥ दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ॥ ८॥ कर्मापेक्षः स चेतर्हि न स्वतंत्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना ॥१॥ अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तयेष परीक्षाक्षेपडिडिमः ॥ १० ॥ ४॥३८३
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy