________________
--
--
प्रथमः सा
-
--
--...
"YONYM MYM VM
भूत्वा त्रिदण्डिका पूर्वलक्षद्वासप्ततिप्रमम् । अतीत्यायुः स सौधर्मे सुरोऽभून्मध्यमस्थितिः ॥७॥ च्युत्वा चैत्ये सन्निधेशोऽरगुद्योतः स हिजोऽभवत् । पूर्वलक्षचतुःषष्ट्यायुष्कः प्राग्वत्रिदण्ज्यभूत् ॥७९॥ मृत्वैशाने मध्यमायुः सोऽभूध्वस्ततश्च्युतः । मन्दिरे सन्निवेशेऽभूदग्निभूतिरिति द्विजः ॥८॥ षट्पश्चाशत्पूर्वलक्षायुषकः सोऽपि त्रिदण्ड्यभूत् । मृत्वा सनत्कुमारे च मध्यमायुः सुरोऽभवत् ॥८॥ च्युत्वा च श्वेतवीपुर्यां भारद्वाजोऽभवद् द्विजः । चतुश्चत्वारिंशत्पूर्वलक्षायुः स त्रिदण्यभूत् ॥८२॥ मृत्वा माहेन्द्रकल्पेऽभूत् स सुरो मध्यमस्थितिः। च्युत्वा भ्रान्त्वा भवं राजगृहेऽभूत्स्थावरो द्विजः ॥८३५ चतुरिंशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । विपद्य च ब्रह्मलोके मध्यमायुः सुरोऽभवत ॥८॥ ब्रह्मलोकात्परिच्युत्य स बभ्राम घडून भवान् | भवो ह्यनन्तीभवति स्वकर्मपरिणामतः ॥८॥ इतश्चाभूद्राजगृहे विश्वनन्दी महीपतिः। पत्न्यां प्रियंगो विशाखनन्दी तस्याभवत्सुतः ॥८६॥ विशाखभूतिर्युवराड राज्ञस्तस्यानुजोऽभवत् । युवराजस्य तस्याभूद्धारिणी नामतः प्रिया ॥८७ मरीचिजीवः प्राग्जन्मोपार्जितैः शुभकर्मभिः । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् ।।८८॥ उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तःपुरो देवकुमार इव नन्दने ॥८९॥ विशाखनन्दी क्रीडेच्छू रापुत्रोऽस्थात्तु तद्वहिः । पुष्पाद्यर्थ गता दास्यो ददृशुस्तौ तथास्थितौ ॥१०॥ १ तपादशौ ।
--- -
--- - -
|८|