________________
तत्त्वार्थवृत्ती
[७/३५-३६ उपक्रगणम् । एते त्रयोऽतिचाराः । क्षुधातृषाद्यभ्यदितस्य पीडितस्य आवश्यकेष्वनुत्साहः अनादर उच्यते । स्मृतेरनुपस्थापनम् विस्मरणं स्मृत्यनुपस्थानम् । ततः अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानि च अनादरश्च स्मृत्यनुपस्थानञ्च अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसस्त पक्रमणानीदरस्मृत्यनुपस्थानानि । एते पञ्चातिचाराः प्रोषधोपवासस्य भवन्ति । ५ अथ उपभोगपरिभोगातिचारानाह
सचित्तसम्बन्धसन्मिभाभिषवदुःपक्काहाराः ॥ ३५ ॥ चेतनं चित्तम् चित्तेन सह वर्तते सचित्तः, तेन सचित्तेन उपसंसृष्ट उपश्लिष्टः शक्यभेदकरणः संसर्गमात्रसहितः स्वयं शुद्धोऽपि सचित्तसञ्चट्टमात्रेण दूषित आहारः सम्बन्धा
हारः। सचित्तव्यतिकीर्णः सम्मिलितः सचित्तद्रव्यसूक्ष्मप्राण्यतिमिश्रः अशक्यभेदकरण आहारः १० सन्मिश्राहारः । सङ्ग-अतिसङ्गौ सम्बन्धसन्मियोर्भेदः । कथमस्य शीलवतः सचित्तादिषु
प्रवृत्तिरिति चेत् ? उच्यते-मोहेन प्रमादेन वा बुभुक्षापिपासातुरः पुमान् अन्नपानलेपनाच्छादनादिषु सचित्तादिविशिष्टेषु द्रव्येषु वर्तते । रात्रिचतुःप्रहरैः क्लिन्न ओदनो द्रव उच्यते. इन्द्रियबलवर्द्धनो माषविकारादिष्यः कथ्यते- वृषवत्कामी भवति येनाहारेण स वृष्यः, द्रवो
वृष्यश्च उभयोऽभिषवः कथ्यते, अभिषवस्याहारः अभिषवाहारः। असम्यक् पक्को दुःपका १५ अस्विनः, अतिक्लेदनेन वा दुष्टः पक्को दग्धपक्कः दुःपक्का,तस्य आहारः दुःपकाहारः । वृष्यदुः
पक्कयोः सेवने सति इन्द्रियमवृद्धिः सचित्तोपयोगः वातादिप्रकोपोदरपीडादिप्रतीकारे अग्न्यादिप्रज्वालने महानसंयमः स्यादिति तत्परिहार एव श्रेयान् । आहारशब्दः प्रत्येकं प्रयुज्यते । तेन सचित्ताहारश्च सम्बन्धाहारश्च सन्मिश्राहारश्च अभिषवाहारश्च दुःपक्काहारश्च सचित्त
सम्बन्धसन्मिश्राभिषवदुःपकाहाराः । एते पञ्चातिचारा उपभोगपरिभोगपरिसङ्खथानस्य भोगो२० पभोगसङ्ख्यापरनाम्नः शीलस्य भवन्ति ।
अथातिथिसंविभागस्यातिचारानाह-- सचित्तनिशेपापिधानपरव्यपदेशमात्सर्यकालातिकमाः ॥ ३६ ।।
चित्तेन सह वर्तते सचित्तम्, सचित्ते कदलीदलोलूकपर्णपद्मपत्रादौ निक्षेपः सचित्तनिक्षेपः । सचित्तेन अपिधानम् आवरणं सचित्तापिधानम् । “अर्थवशाद्विभक्तिपरिणामः" २५ [ ] इति परिभाषणात् सचित्तशब्दात् सप्तमीतृतीये निक्षेपापिधानविग्रहे भक्तः ।
अपरदातुर्देयस्यार्पणं मम कार्य वर्तते त्वं दहीति परव्यपदेशः, परस्य व्यपदेशः कथनं परव्यपदेशः । अथवा परेऽत्र दातारो वर्तन्ते नाहमत्र दायको वर्ते इति व्यपदेशः परव्यपदेशः । अथवा परस्येदं भक्त याद्यासंदेयं न मया इदमीदृशं वा देयमिति परव्यपदेशः । ननु परव्यपदेशा
१ कथमवश्यं शी- आ०, २०, २०, ज० | २ -नेन म- आ०, २०, द०, ज.। ३ -ख्यानना- आ०, ब०, ६०, ज०१४ -हेण भ- आ०, १०, २०, ज० ।५ -भक्तधाभासं ता० ।