________________
२५२ तत्त्वार्थवृत्तो
[७:३१-३२ भाण्डेन महान् लाभो भवतीति तत्र गमनाकाङ्क्षा 'गमनं वा क्षेत्रवृद्धिः । दक्षिणापथागतस्य धाराया 3उज्जयिनी पञ्चविंशतिगव्यूतिभिः किञ्चिन्यूनाधिकाभिः परतो वर्तते। स्मृतेरन्तरं विच्छित्तिः स्मृत्यन्तरं तस्य आधानं विधानं स्मृत्यन्तराधानम् अननुस्मरणं योजनादिकृतावधेविस्मरणमित्यर्थः। ऊध्वंच अधश्च तिर्यक्च ऊर्ध्वाधस्तियश्चस्तेषां व्यतिक्रमास्त्रयोऽ. तिचाराः, क्षेत्रवृद्धिश्च स्मृत्यन्तराधानञ्च ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि । एते पन्चातिचाराः दिग्विरतेभवन्ति । अथ देशविरत्यतिचारान् प्रथयति
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥
आत्मसङ्कल्पितदेशस्थितोऽपि प्रतिषिद्धदेशस्थितानि वस्तूनि कार्यवशात् तद्वस्तु१० स्वामिनं कथयित्वा निजदेशमध्ये आनाय्य क्रयविक्रयादिकं यत्करोति तदानयनमुच्यते । एवं विधेहीति नियोगः प्रध्यप्रयोगः । कोऽर्थः ? प्रतिषिद्धदेशे प्रेष्यप्रयोगेणैव अभिप्रेतव्यापारसाधनम् । निषिद्धदेशस्थितार्न कर्मकरादीन् पुरुषान् प्रत्युद्दिश्य अभ्युत्कासिकादिकरणम्, काठसमये कुल्सिनशाइन काल महायुत्कासिका कथ्यते, तं शब्दं श्रुत्वा ते कर्मकरादयो
व्यापार शीघ्रं साधयन्ति इति शब्दानुपातः । स्वशरीरदर्शनं रूपानुपातः । पुद्रलस्य लोष्टादेः क्षेपो १५ निपातः पुगलक्षेपः। आनयनच प्रेष्यप्रयोगश्च शब्दरूपानुपातौ च पुद्गलक्षेपश्च आनयन प्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः। एते पञ्चातिचाराः देशविरतेभवन्ति ।
अथानर्थदण्डविरतेरतिचारानाहकन्दर्पकौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगपरिभोगा
नर्थक्यानि ॥३२॥ रागाधिक्यात् वर्करसंवलिताऽशिष्टवचनप्रयोगः कन्दर्प उच्यते। प्रहासवागशिष्टवाकप्रयोगौ पूर्वोक्तौ द्वावपि तृतीयेन दुष्टेन कायकर्मणा संयुक्तौ "कौत्कुच्यमुच्यते । धृष्टत्वप्रायो बहुप्रलापो यत्किञ्चिदनर्थकं वचनं यद्वा तद्वा तद्वचनं मौखर्यमुच्यते । असमीक्ष्य अविचार्य अधिकस्य करणम् "असमीक्ष्याधिकरणम् । तत्रिधा भवति-मनोगतं वागतं कायगतञ्चेति । तत्र मनोगतं मिथ्यादृष्टीनामनर्थकं काव्यादिचिन्तनं मनोगतम्। निष्प्रयो२५ 'जनकथा परपीडावचनं यत्किञ्चिद्वक्तृत्वादिकं वाग्गतम् । निःप्रयोजनं सचित्ताचित्तदल
फलपुष्पादिछेदनादिकम् अग्निविषक्षारादिप्रदानादिकं कायगतम् । एवं त्रिविधम् असमीक्षा(क्ष्या ) धिकरणम् । न विद्यते अर्थः प्रयोजनं ययोस्तौ अनर्थको, अनर्थकयोभीवः कर्म वा आनर्थक्यम् , उपभोगपरिभोगयोरानर्थक्यम् उपभोगपरिभोगानर्थक्यम्, अधिकमूल्यं
१ गमनं च क्षे- बा०, ब०, ज०। २ -गतधारायाम् ता०।३ऊयि- ता। ४ कौत्कुच्य उ-- आ०, ३०, २०,ज०। ५ -क्षाधि- आ०, २०, २०, ज०। ६ -जनकथनं प- भा०, २०,६०, ज० ।