SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीमदुमास्वामिविरचितस्य तत्त्वार्थसूत्रस्य श्रीश्रुतसागरसरिरचिता तत्त्वाथ मार्गदर्शक :- आचार्य श्री सविधिसागर जी महाराज [प्रथमोऽध्यायः ] सिद्धोमारवामिपूज्य जिनवरवृषभ वीरमुत्तीरमा श्रीमन्तं पूज्यपादं गुणनिधिमधियन सत्प्रभाचन्द्रमिन्द्रम् । श्रीविद्यानन्द्यधीशं गतमलमकलकार्यमानम्य रम्यं वक्ष्ये तत्त्वार्थवृत्ति निजविभवतयाऽई 'श्रुतोदन्बदाख्यः ॥ १॥ अथ श्रीमदुमास्वामिभट्टारकः कलिकालगणधरदेवो महामुनिमण्डलीसंसेवित- ५ पादपनः कस्मिंश्चिदाश्रमपदे सुस्थितः मनोवाकायसरलतया बांचंयमोऽपि निजमूर्त्या साक्षान्मोक्षमार्ग कथयन्निव सर्वप्राणिहितोपदेशैककार्यः समार्यजनसमाश्रितः निर्मन्थाचार्यवर्यः अतिनिकटीभवत्परमनिर्वाणेनासन्नमव्येन 'याकनाम्ना भब्यवरपुण्डरीकेण सम्पृष्टः 'भगवन , किमात्मने हितम् ?' इति । भगवानपि तत्प्रश्नवशात् 'सम्यग्दर्शनज्ञानचारित्रलक्षणोपलभितमन्मार्गसम्बानो मोक्षो हितः' इति प्रतिपादयितुकाम इष्टदेवता. १० विशेष नमस्करोति मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्द तद्गुणलब्धये ॥ १॥ वन्दे नमस्करोमि । कः? कर्ताहमुमास्वामिनामाचार्यः भव्यजीवविश्रामस्थानप्रायः । किमर्थ वन्दे ? तद्गुणलब्धये । तस्य भगवतः सर्वज्ञवीतरागस्य गुणास्तद्गुणाः, तेषां १५ लन्धिः प्राप्तिः तद्गुणलब्धिः, तस्य तद्गुणलब्धये । 'के तस्य गुणाः' इति प्रश्ने भगवद्गुणत्रयगर्भित विशेषणत्रयमाह । कथम्भूतं सर्वज्ञवीतरागम ? मोक्षमार्गस्य नेतारम् 1 मोक्षः सर्वकर्मविप्रयोगलक्षणः, तस्य मार्गः सम्यग्दर्शनज्ञानचारित्रलक्षणो वक्ष्यमाणो मोक्षमार्गः, --. ... ...... - -- . .--. . --.. १ श्रुतसागरः । २ मौनदानपि । ३-जनमाश्रि-त्र। निग्रता । ५ वेवाक-1०। द्वैयायिक-आ। एतन्नामा श्रावकः । ६ भगवन्नन कि-वः । -
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy