________________
तत्त्वार्थश्लोकवार्तिकालंकार का मूलाधार
षष्ठ खंड
पंचमोऽध्यायः
अजीव काया धर्माधर्माकाश-पुद्गलाः || १ || द्रव्याणि ॥ २ ॥ जीवाश्च ॥ ३ ॥ नित्यावस्थितान्यरूपाणि || ४ || रूपिणः पुद्गलाः || ५ || आ आकाशादेकद्रव्याणि ।। ६ ।। निष्क्रि याणि च ।। ७ ।। असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् || ८ || आकाशस्यानन्ताः ॥ ९ ॥ संख्येया संख्येयाश्च पुद्गलानाम् ॥ १० ॥ नाणोः || ११|| लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने || १३ ॥ एकप्रदेशादिषु भाज्य: पुद्गलानाम् || १४ || असंख्येय भागादिषु जीवानाम् ।। १५ ।। प्रदेश संहार - विसर्पाभ्यां प्रदीपवत् ।। १६ ।। गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ।। १७ ।। आकाशस्यावगाहः ।। १८ ।। शरीर वाङ् मनः - प्राणापानाः पुद्गलानाम् ।। १९ ।। सुख-दुःख जीवित-मरणोपग्रहाश्च ।। २० ।। परस्परोपग्रहों जीवानाम् ।। २१ ।। वर्तना - परिणाम - क्रिया-परत्वापरत्वे च कालस्य ।। २२ ।। स्पर्श-रस- गन्ध-वर्णवन्तः पुद्गलाः || २३ || शब्द-बन्धसौक्ष्म्य-स्थौल्य-संस्थान-भेद - तमश्छायातपोधोतवन्तश्च ।। २४ ।। अणवः स्कन्धाश्च ।। २५ ।। भेदसंघातेभ्य उत्पद्यन्ते ।। २६ ।। भेदादणुः || २७ || भेद - संघाताभ्यां चाक्षुषः ।। २८ ।। सद् द्रव्य-लक्षणम् ।। २९ ।। उत्पादव्यय-धौव्य - युक्तं सत् ॥ ३० ॥ तद्भावाव्ययं नित्यम् ॥ ३१ ॥ अर्पितानर्पितसिद्धेः ।। ३२ || स्निग्धरुक्षत्वाद्बन्धः ॥ ३३ ॥ न जघन्य - गुणानाम् ॥ ३४ ॥ गुणसाम्ये सदृशानाम् ।। ३५ ।। द्वयधिकादि-गुणानां तु ॥ ३६ ॥ बन्धेऽधिकौ पारिणामिकौ च ।। ३७ ।। गुण-पर्ययवद् द्रव्यम् ।। ३८ ।। कालश्च ।। ३९ ।। सोऽनन्तसमयः || ४० ॥ द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ तद्भावः परिणामः ।। ४२ ।।
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥ षष्ठोऽध्यायः
काय-वाङ्-मनः-कर्म योगः || १ || स आस्रवः || २ || शुभः पुण्यस्याशुभः पापस्य ॥३॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः || ४ || इन्द्रिय- कषायात्रत - क्रियाः पञ्च चतुः पञ्च पञ्चविंशति संख्याः पूर्वस्य भेदाः ।। ५ ।। तीव्र - मन्द- ज्ञाता ज्ञात-भावाधिकरण-वीर्य-विशेषेभ्यस्तद्विशेषः ।। ६ ।। अधिकरणं जीवाजीवाः ।। ७ ।। आद्यं संरम्भ-समारम्भारम्भ-योग-कृत-कारितानुमत-कषायविशेषैस्त्रि स्त्रिस्त्रिश्चतुश्चैकशः ॥ ८ ॥ निर्वतनानिक्षेप-संयोग-निसर्गाद्वि-चतुर्द्वि-त्रि-भेदाः परम्