SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ५७० ] सुखबोधायां तत्त्वार्थवृत्ती गीर्वाण्याञ्च विशेषेण, विचक्षणो गाभीर धीः । स्वेन लिखित पत्रेण, येन दत्त निजं पदम् ॥१३॥ गुरोराज्ञानुसारेण, तत् पट्ट समलङ करोत् । चतुर्गणरय॑मानो, वर्द्धमानो मुनीश्वरः ॥१४॥ तांगमादिग्रंथेषु, कुशलो हितशासकः । जिनशासन माहात्म्यं, बर्तमाने करोति यः ॥१५॥ एतान् सर्वान् सूरिवन्,ि पञ्चाचार परायणान् । यशसा धवलिताशान्, वरिवस्यामि भक्तितः ॥१६॥ शताधिक सुग्रंथानां, प्रणेत्रीं च प्रभाविकाम् । आर्या ज्ञानमती वन्दे, गणिनी मातरं सदा ॥१७॥ आर्यावर्तस्य प्रान्तेऽस्मिन् राजस्थाने सुधार्मिके । डूङ गारपुर नामस्ति जनपदं मनोहरम् ॥१८॥ तस्य च साबलाग्रामे, जैनधर्म परायणाः । वसन्ति श्रावकाः भध्याः, गुरूभक्तिषु तत्पराः ॥१९॥ शिखरैः पंचभियुक्त, चेतोहर जिनालयम् । ... घण्टातोरणद्वारेण, राजते पुण्यवर्चकम् ॥२०॥ पद्मप्रभ जिनेन्द्रस्य, प्रतिकृतिः सुशोभते । श्रद्धालु मानवानां या, पापसन्तापच्छेदिनी ॥२१॥ तस्मिन् जिनमन्दिरे स्थित्वा, जिनं नत्वा त्रियोगतः । तत्त्वार्थ सूत्र टीकायाः प्रारब्ध मनुवादनम् ॥२२॥ भास्करनन्दि ग्रंथस्य राष्ट्र भाषानुवादनम् । त्रिभिर्मासैः । प्रपूर्णञ्च, सुगममल्पमेधसाम् ॥२३॥ ममायिका जिनमत्याः कृतिरेषा. सुबोधिका । सतामाह्लादनं कुर्वन्, चिरं तिष्ठतु भूतले ॥२४॥
SR No.090492
Book TitleTattvartha Vrutti
Original Sutra AuthorBhaskarnandi
AuthorJinmati Mata
PublisherPanchulal Jain
Publication Year
Total Pages628
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy