________________
८३२ मध्यमस्याद्वादरहस्ये खण्ड ३ का. ११
* उदयनानुसारिमतयोतनम्
ॐ जयलता
उदयनानुसारिणस्तु अनुत्पतत्त्वज्ञानस्य ज्ञानार्थिनस्तत्प्रतिबन्धकन्दुरितनिवृतिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म स नित्योप कारकं च तत्त्वज्ञाने, उत्रनतत्त्वज्ञानस्य त्वन्तरलब्धदृष्टे : कारीरिसमाप्तिवदारन्धाग्निसं पालनं लोकसङ्ग्रहार्थं यद्यपि लोकसङ्ग्र न प्रयोजनं सुखदुःखाभावात्साधनेतरत्वात् तथापि लोकानां नित्यत्वेन यद् ज्ञानं तत्परित्यागार्थं (तत्प्रपालनार्थं ) तत्तद्दुः खयोगेन कर्मनाशार्थं वा तत् इदमेव च द्वारि द्वारयोः कम्र्म्म-तत्त्वज्ञानयोः कारणत्वं तुल्यकक्षतया समुच्चयों नेष्ट इत्यनेन विवक्ष्यते । यद्यपि च तीर्थविशेषस्नानादीनां तत्वज्ञानव्यापारकत्वं न शाब्दं, तथापि तीर्थविशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात यमादिवत् इत्यनुमानात्तथात्वसिद्धिः । न च योगत्वम उपाधिः कथ्यति भगवानिहान्तकाले भवनयकातरतारकं प्रबोधम्' इत्यादिपुराणात 'रुद्रस्तारकं ब्रह्म व्याचष्ट' इति श्रुतेश्व काशीप्रमागादेस्तत्त्वज्ञानव्यापारकत्वसिद्धी तंत्र साध्याव्यापकत्वादित्याहुः |
स्वतन्त्रास्तु तत्त्वज्ञानं प्रत्यत्वपक्षे कर्म्मणामपूर्वद्वारा जनकत्व दुरितध्वंसकल्पनाती लघुत्वान् । वस्तुतः कर्म्मणां निःश्रेयसहेतुत्वे तज्जन्यनिः श्रेयसजनकतया तत्वज्ञानस्य कम्मंस्यापारत्वं वाच्यम्, तदेव तु न युक्तं "न कर्म्मणा न प्रजया धनेस' 'नान्यः पन्था विद्यतेऽयनाय" (ता.उप.३/८६/१५) । नास्त्यकृतः कृतेन' (मुण्ड, १/२/१२) कर्म्मणा वध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कम्मं न कुर्वन्ति यतयः पारदर्शिनः " || ९ || इत्यादिश्रुतिस्मृतिशतेन निषेधात् कर्म्मजन्यत्वाभावाच 'तपसा कल्म हन्ति अविद्या मृत्युं तीर्त्वा ततस्तु तं पश्यति निष्कलं ध्यायमानः कषाय पक्तिः कर्मभ्यः ॥" इत्यादिभिस्तत्त्वज्ञानात्यनिप्रतिबन्धकद्दुरितनिवृत्यैवान्यथासिद्धेः प्रदर्शनात् । न च विविदिषन्ति यज्ञेन", "सर्व कम्मो खिल
ज्ञाने परिसमाप्यते" (भ.गी.४ / २५) इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यं सा हि न अपूर्वद्वारा प्रतिबन्धकदुरितानुच्छेद अपूर्वसहस्रस्यापि अकिञ्चित्करत्वात, तदुच्छेदन तज्जनने तु प्रमान्तराबधुतकारणभावेन प्रतिबन्धका भावनैवान्यथासिद्धेः । न चैवं यागादेरण्यपूर्वेणान्यवासिद्धिः स्यात् तस्य यागकारणताग्र हो सरकल्यत्वनोपजीव्या परिपन्धित्वात् इह तु प्रतिबन्धका भावस्य कार्य्यमानं कार (ग) तायाः प्रावावधारणादिति विशेषात् । अत एव मङ्गल कारयोः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं दृष्टिसमाप्ती तु स्वकारणादेवेति सिद्धान्तः । किञ्च क्रम्मं कारणताग्रहानुपजीवनेन लौकिकान्वयव्यतिरेकावधृतमिथ्याज्ञाननिवर्त (न) भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु केवल्यम्" "तरति शोकमात्मवित्" "ब्रह्मविदाप्नोति परं (तैत्ति. २/१/१ + भस्मजा. २/७) “ब्रह्मविद ब्रह्मैव भवति" इत्यादिश्रुतिस्मृतिशनेन तत्त्वज्ञानस्येष्टतया ग्रहणात्तदेव मोक्षसाधनम् कर्माणि तु तत्रैवान्यथासिद्धानीत्युक्तम्, यथा च न तत्रापि व्यापारस्तथोक्तमेव । अत एवार्थाविवोवपर्य्यन्तताऽध्ययनविधेः न तु तेन कत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः । न च तत्त्वज्ञानस्य कर्म्मणां निःश्रेयस्प्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पयर्व्यात् (गंभ) श्रुत्यन्तरसिद्धेऽन्यधासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात् तावतैव श्रुतेः कर्मप्रवृत्तिपरतरनिर्वाहादित्याहुः ।
अत्र वयं वदामः मोक्षस्तावत्पुरुषार्थत्वाद्दुःखसाधनभ्वंस एव न तु दुःखध्वंसः उत्पन्नानुत्पन्नविवेकेन तदृध्वंसस्यासाध्यत्वात, तत्र च ज्ञान- कम्र्म्मणोः वैजात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवेत्येकतरपक्षपाती न श्रेयान, ज्ञाने केवलज्ञानत्वरूपस्य कम्मणि च यधाख्यातचारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशनिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति । एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्म्मसहकारि ( त्वं ) मिथ्याज्ञानोन्मूलने, कम्र्म्म विनाकृतस्यैव यस्प दिमोहादी हेतुत्वावधारणादिति निरस्तं मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मध्याज्ञानप्रागभावाऽसहवृत्तिमिथ्याज्ञानध्वंसे च हेतुताया लोकप्रमाणविषयत्वेन ज्ञानकर्मणोर्द्वयोरेव कल्पनाचित्यात् । वस्तुतः अर्थसमाज सिद्धत्वानवच्छिपिन हेतुता, किं तु सामान्यावच्छिन्नध्वंसनये कर्म्मवावच्छिन्नध्वंसे तत्सम ( ? या ) यावत्कन्मक्षयसमनियत क्षायिकसुखत्वावच्छिन्ने वेति न कस्यापि न्यूनत्वं पराभिमतद्वारस्थाने एव फलाभिषेकात् एकपुरष्कारणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति न कर्म्मकारणताबोधकवचनेऽनुकूलत्वमात्रं अर्थः कारणलाशक्तपदस्यानुकूलत्वे लक्षणायां गौरवात्, अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघवमिति दृष्टिदाने च विधिप्रत्य (य) मात्रार्थी पीष्टानुकूलत्वमात्रमेव स्यादिति यागादेष्यपूर्वेणान्यथासिद्धिः स्वात् यागादिकारणताग्रहमनुपजीव्यैव तत्रापूर्वकल्पनादिति न किञ्चिदत्तत् । यदपि प्रतिबन्धकनिवृत्यैवान्यथासिद्धः कर्म्मणांन तत्त्वज्ञाने न वा तदुद्वारा मुक्ती हेतुत्वमित्युक्त्तं, तदपि न युक्तं, प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावत्वेन कार्यमात्रे नुगतहेतुताया अयोगात प्रतिबन्धकविशेषनिवृत्तिहेतुतायाश्च कर्मकारणताग्रहीत्तरकल्पनीयत्वेन तदन्यथासिद्ध्चनापादकत्वात् । किञ्च प्रतिबन्धकनिवृत्त्यान्यथासिद्धत्वेन कम्र्म्मणोऽहेतुत्वं वत्ती तत्त्वज्ञानस्य सुतरां तथात्वं स्यात् न ह्युत्पन्नकेवलज्ञाना अपि भवो - पग्राहिकचतुष्टयं प्रतिबन्धकमनिवर्तयित्वा सद्य एव मुक्तिनासादयन्ति इति मुक्तिप्रतिबन्धककम्मैनिवर्तकत्वेन तत्त्वज्ञानस्य