________________
५४१ मध्यमस्याद्वादरहस्य खण्डः २ का ७ * तत्त्वसङ्ग्रहकारमतसमालोचना
साविषयमेव विनुवृत्तिव्यावृत्ति व्यवहारस्यैकदा सम्भवात् तयोरेव जात्यन्तररूपताऽस्त्विति चेत् ?
अथ मिति
* जयलता
तत्त्वे क्वाऽस्तु समुद्रवित् ॥ ( ) एवं वस्तुन एवाऽनुवृत्त्य॑शः सामान्यं व्यावृत्त्यंशश्च विशेषपदार्थ इति सिद्धान्ताशयः । यत्तु शान्तरक्षितेन तत्त्वसङ्ग्रहे स्याद्वादपरीक्षाप्रकरणे
'मनु सत्येकरूपत्वे धर्मभेदो न सिद्ध्यति । अकल्पितो विभेदो हि नानात्वमभिधीयते ॥ नानात्मत्वं तु शक्तीनां विवक्षामात्रनिर्मितम् । एकवस्त्वात्मकत्वे हि न भेदोऽत्रापि युक्तिमान् ॥ एकमित्युच्यते तद्धि यत्तदेवेति गीयते । नानात्मकं तु तन्नाम न तद्भवति यत्पुनः ।। तद्भावश्चाऽप्यतद्भावः परस्परविरोधत: । एकवस्तुनि नैवाऽयं कथञ्चिदवकल्प्यते ॥ विधानप्रतिषेधी हि परस्परविरोधिनौ । शक्यावेकत्र नो कर्तुं केनचित्स्वस्थचेतसा ॥ सजातीयविजातीयाऽनेकव्यावृत्तवस्तुनः । ततस्ततः परावृत्तेर्धर्मभेदस्तु कथ्यते ।। एकस्यापि ततो युक्ता कल्पिताऽसङ्ख्यरूपता । वास्तवं नैकभावस्य द्वैरूप्यमपि सङ्गतम् ॥ नरसिंहादयो ये हि द्वैरूप्येणोपवर्णिताः । तेषामपि द्विरूपत्वं भाविकं नैव विद्यते ॥ सानेका सन्दोहस्वभावो नैकरूपवान् । यच्चित्रं न तदेकं हि नानाजातीयरत्नवत् ॥ ऐक्ये स्थान द्विरूपत्वान्नानाकारावभासनम् । मक्षिका पदमात्रेऽपि पिहितेनावृतिश्च न ॥ नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः । ते चाणवः प्रकृत्यैव विशिष्टप्रत्ययोद्भवात् ॥ एतेनैव प्रकारेण चित्ररत्नादयो गताः । नानात्मना हि वैचित्र्यमेकत्वेन विरुध्यते ॥
-
तत्र मया
अर्थं क्रियासमर्थत्वं वस्तुत्वमभिधीयते । यदि तस्यानुगामित्वं सर्वं स्यात्सर्वकार्यकृत् ।। (त.सं. १७२५ / १७३७) इत्युक्तम् । द्रव्यात्मनैकरूपत्वेऽप्यत्र भेदो न दुष्यति । पर्यायापेक्षया वास्तवो विभेदोऽभिधीयते || १|| नानात्मत्वं न शक्तीनां विवक्षामात्रनिर्मितम् । एकवस्त्वात्मकत्वेऽपि कथञ्चिदबोधतः ||२|| एकमित्युच्यते तद्धि यदनुवर्त्तते खलु । नानात्मकं तु तन्नाम तत्र यद् व्यतिरिच्यते ॥ ३ ॥ अवच्छेदकभेदेन परस्पराविरोधतः । एकत्राऽप्युभयं ह्येवं कथचिदवकल्यते ||४|| विधानप्रतिषेधी हि परस्पराविरोधिनौ । एकत्र रूपभेदेन शक्येते दूषितुं न १ ||५|| कथञ्चिदनुवृत्तस्य व्यावृत्तस्य च वस्तुनः । एकानेकस्वभावत्वं बाधितुं नैव शक्यते || ६ || एकस्यापि ततो युक्ता कल्पिताऽसङ्ख्यरूपता । वास्तवं चैकभावस्य द्वैरूप्यमपि सङ्गतम् ||७|| नरसिंहादयो भावा द्वैरूप्येणाऽभ्युपेता हि । तेषामपि द्विरूपत्वं भाविकं चैव विद्यते ||८|| कथञ्चिदसन्दोहयतिरिक्ताः स्वभावत: । अतो न सर्वथा नानात्वमाबिभ्रति ते खलु ||९|| नानात्वं स्यात्कुतोऽखण्डाकारावभासनं तदा । तदेकदेशकर्षे कुतो नाऽन्य भागकर्षणम् ||१०|| नृसिंहभागानुस्यूतप्रत्यभिज्ञानहेतवः । ते चाऽणवः प्रकृत्यैवेत्यत्र मानं न विद्यते || ११|| एतेनैव प्रकारेण चित्ररत्नादयो मताः । द्रव्यैकत्वं विरुद्धं न चित्रपर्यायराशिभिः ||१२|| द्रव्यात्मनाऽनुगामित्वं पर्यायैर्व्यतिरेकिता । वस्तुत्वेऽपि ततो नैव सर्वं स्यात्सर्वकार्यकृत् ॥ १३॥ व्यवहारानुरोधेन तत्तदर्धक्रिया मताः । एकानेकस्वभावत्वेऽप्यर्थक्रिया न दुष्यति ||१४||" ←परः शङ्कते अथेति । 'चेदित्यनेनाऽस्याऽन्वयः । मिलिताभ्यां सामान्यविशेषाभ्यामेवेति 1 एवकारेण परस्पराs| सम्मिलितयोस्तयोः परस्परसम्मिलिततदुभयव्यतिरिक्तस्य जात्यन्तररूपस्य सामान्यविशेषत्वस्य च व्यवच्छेदः कृतः । तयोरेवेति । मिलितयोः सामान्यविशेषयोरेवेति । एवकारेण चाऽमिलिततदुभय-तदूव्यतिरिक्तसामान्यविशेषत्वयोर्व्यवच्छेदः कृतः । युगपदनु
इत्येवं प्रतिविधीयते ।
अथ मि. इति । यहाँ यह शंका हो कि 'नय कि दृष्टि से सामान्य और विशेष दो परिणाम और प्रमाण की दृष्टि से उन दोनों से भिन्न जातिविशेषरूप सामान्यविशेषात्मकत्व की कल्पना करने की अपेक्षा यही कल्पना करनी उचित महसूस होती है कि नयगोचर सामान्य और विशेष ही संमिलित हो कर एक काल में कथंचित् अनुवृत्तिबुद्धि और व्यावृत्तिबुद्धि को