________________
४.७ मध्यमस्याद्वादरहस्ये खण्डः २ • का.५ * तेजःपुद्रलानामन्धकारत्वेन परिणमनम् * दिति चेत् ? मैवं वादीः, घनतरावरणसाचियेन तेज:पुद्रलानामेव तत्र तमस्त्वेन परिणमनात्। न हि नियताराम्भवादिनो वयं, येन तेजोऽवयवैस्तिमिरारम्भो न शक्येत वक्तुम ।
'नीलरूपं तमः' इति कन्दलीकारवचनं तु नादरणीयम्, निराश्रयस्य रूपस्यासम्भवात्, ताहशनियताश्रयस्य चानुपलभ्यमानत्वात् ।
== =* जयलता * प्रकरणकृत्तत्प्रत्याचष्टे - मैवं चादीरिति । मापदयोगादकारलोपः । यद्रव्यं यद्रव्यध्वन्सजन्यं तत्तदुपादानोपादेयमिति नियमात् तेजोऽवयविध्वंसजन्यस्य तमसः तेजोऽवयवोपादेयत्वान्न तदा तमोऽवयव्यारम्भाऽसम्भवो नैयापिकनियमानुसारेणाऽपीत्याशयेन प्रकरणकृदाह - धनतरावरणसाचिन्येन = निश्छिद्रपिधानसाहाय्येन, तेजःपुद्गलानामेव = तेजोऽवयव्युपादानानां, एवकारेण तमोऽवयवव्यवच्छेदः कृतः । तत्र = घनतरावरणमध्ये, तमस्त्वेन परिणमनात् । तेजोऽवयवानां कथं तमोऽवयव्यारम्भकत्वं, तमसि तेजस्त्वविरहात्, सजातीयैरेवाययवैः सजातीयावयव्यारम्भकत्वनियमादित्याशङ्कायामाहम - न हि नियतारम्भवादिनो बयमिति । यदि नियतारम्भवादोऽस्माभिरङ्गीकृतः स्यात्, न स्यात् तदा तेजोऽवयवैरन्धकारारम्भः । न चैवमिति तेजोऽवयः प्रागवस्थितस्तिमिरारम्भो बक्तुं शक्यत एव । न च निपतारम्भवादस्य सर्वथाऽनभ्युपगमे एकान्तवादप्रसङ्ग इति वक्तव्यम्, स्याद्वादिभिरस्याभिः पुद्गलत्वेन नियतारम्भबादस्य पुद्गलत्वव्याप्यपृथिवीत्वादिना चानियतारम्भवादस्याऽगीकारात्। पुद्गलत्वव्याप्यजात्या अपि नियत्तारम्भवादस्य प्रामाणिकत्वे तु निशायां समुद्रे बडवानलारम्भः कथं सगच्छेततराम् । जलावयवैः तिमिरावयवैश्च साकं तेजोऽवयावानां प्रागनवस्थानात्, सर्वतो जलतिमिरसङ्कुले चान्यतोऽपि तेजोऽवयबानामागमनाऽसम्भवात् । तत्राऽदृष्टविशेष-घर्षणादिसाचिव्येन जलावयचरेब पानसारम्भो कागला गुगन्तव्य : न च जलान्त:पातिभिरनलावयवैरेव तदानी बडवानलारम्भ इत्युद्गारणीयम्, आलोकान्त:पातिभिः तिमिरावयवैरेव घनतरावरणमध्ये तिमिरारम्भ इत्यस्याऽपि सुक्चत्वात् । सत्कार्यवादनिराकरणे नियतारम्भवादस्य निराकृतत्वान्नदानीं तन्निरासेऽस्मदीयत्नः, मृतमारणवनिरर्थकत्वात् ।
व्योमशिवमतं निराकर्तुमुपक्रमते - 'नीलरूपं तम' इति । आरोपितस्य नीलरूपस्य तन्मते तमस्त्वात् । तदयुक्त - त्वमादर्शयति - निराश्रयस्य रूपस्याऽसम्भवादिति । भूतलादावेवालोकविरहदशायां नीलरूपारोपात् भूतलादेरेब तदाश्रयत्वमस्त्वित्याशङ्कायामाह - तादृशनियताश्रयस्य चानुपलभ्यमानत्वादिति । क्वचिद्भूतले क्वचित्पते क्वचिच्च गुहायां तत्प्रतीते: नियताश्रयकत्वं तस्य न सम्भवति । न च पृथिवीत्वेनैव तदनुगमसम्भवान्नैष दोष इति वक्तव्यम्, जलादावपि तमःप्रत्ययात् । न चालोकाभाववत्त्वेनैवारोपितनीलरूपाधिकरणानुगमोऽपि सम्भवति, आलोकपरमाणु-तप्तजल-सुवर्णादावपि तम:प्रतीतेरुदयात् । न च मदुद्भूतानभिभूतरूपवदालोकशून्यत्वेन तदधिकरणानुगमोऽस्विति वाच्यम्, तथापि तत्र पीतरूपाचारोपप्रसङ्गात्, नीलि| द्रव्योपरक्तेषु वस्त्रादिषु तमोव्यवहारप्रसङ्गाच्च । न चारोपे सति हि निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप इति नियमात्र | आरम्भ नामुमकिन है । इसलिए अन्धकार हो द्रव्यात्मक नहीं माना जा सकता है" <
तेज:परमाणु से अन्धकारारम्भस्वीकार - वर्धमानमनिरास मैर्व. इति । प्रकरणकार श्रीमद्जी कहते हैं कि वर्धमान उपाध्याय का उपर्युक्त कथन अन्धकारद्रव्यवादी स्यावादी के मत में बाधक नहीं हो सकता है । इसका कारण यह है कि प्रकृष्ट आलोक से संयुक्त स्थान में घटादि को पराङ्मुख करने पर उसके भीतर आलोकपरमाणु ही अन्धकार के स्वरूप में परिणत हो जाते हैं। जैसे महापट के अवयव तंतु खण्ड पट के स्वरूप में परिणत होते हैं वैसे प्रकृष्ट आलोक के अवयव का अन्धकारात्मना परिणाम हो सकता है। यहाँ यह शंका करना कि -> "तैजस अवयवों से तो तैजस अवयवी का आरम्भ हो सकता है, अन्धकारात्मक अवयवी का नहीं" <- ठीक नहीं है, क्योंकि हम स्पाद्वादी है, नियतारम्भवादी नैयायिक नहीं । अतः तेजस परमाणु से तैजस अवयरी का ही आरम्भ हो सकता है. ऐसा एकान्त हमें मान्य नहीं है । जैसे सहकारी विशेष के सान्निध्य से गोबर से भी विच्छ आदि की उत्पत्ति होती है, ठीक वैसे ही निरिड आवरण के सहकार से तैजस परमाणु से भी तिमिर की उत्पत्ति हो सकती है। अतः अन्धकार को द्रव्य मानने में कोई बाधा नहीं है।
कन्दलीकारमतरखण्डन नीलरूपं. इति । न्यायकन्दलीकार का मत यह है कि > 'अन्धकार दुसरा कुछ नहीं है, किन्तु आरोपित नील रूप