SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ * अन्धकारवादसंवादः --- -* गयलता है। जल्पन्त्यनल्पसंकल्पाः केचित् कर्कशतार्तिकाः । ध्वान्तमत्यन्ताऽसदंशं तेजसामिति निश्चितम् ।।१।। तन्न तथ्यं ततस्तस्य तथात्वेऽध्यक्षतः सदा । सर्वत्र ग्रहणं नृणां स्यात् त्रैकालिकताऽस्य चत् ।।२।। यथाऽऽलोकस्य सत्त्वेनान्धकारोऽध्यनतो ध्रुवम् । गृह्यते न ततस्तस्मिन् स्यात् त्रैकालिकता मता ॥३॥ तदप्यचारुवचनं यत् तैर्यत्नादुदीरितम् । यतो यो यदभावः स्यात् स तस्मिन् सति नेक्ष्यते ।।४।। तद् यथैकयटे नाव्यन्यकम्भानामभावता । प्रत्यक्षा तैजसकेन स्यात् तथाऽन्यत्विषामसी ||५|| अतस्तरणितेजों शैरन्यो (द्) द्योतासदंशता । प्रत्यक्षतस्तमोरूपा नृभिर्नो गृह्यते कथम् ॥६॥ अधैकसूर्यालोकोऽपि विपक्षोऽन्यत्वेिषां ततः । तमोऽत्पन्ताभावरूपं न स्यालोचनगोचरम् ।।७।। एवं च ब्रुवतां तेषां कश्चिदेवं बदत्यपि । प्रत्यक्षस्तेजसा नासाबन्धकारो गुणाश्रयः ||८|| कथं चैवं नैक: कुम्भोऽन्यकुम्भाभाववैर्यभूत् । तथा च स्याद् घटाभावो लक्ष्यस्तेषां न चक्षुषा ॥९|| ___ अपि चैकार्कालोकांशैराक्रान्ते जगतीतले । तेभ्यो भिन्नस्वभावानामभावस्तेजसां भवेत् ||१०|| सोजस्ति प्रतीतः सर्वेषां प्रत्यक्षाचारचाक्षुषात् । परं सकः समस्तीति तद् वक्त्तव्यं संयुक्तिभिः ॥११॥ __ अत्र नु प्रागभावादेः प्रवेशस्य विमर्शनम् । श्वपाकस्पर्शवत् त्याजयं तद् यन्नाङ्गीकृतानुगम् ॥१२॥ अस्तु वा तत् तथापि स्यात् तस्मात् तेषां हि हितम् । यस्मादत्रैतदनेहो ग्रहणान्यत्यपदोपमम् ॥१३॥ अथाभ्युपगतः पूर्वं सोऽसौ चेदत्र सूत्रितः । अनारतं तमस्तर्हि विशदं स्याद् दिनेङ्गिनाम् ।।१४।। न चाभावेन सर्वांसां भासां स्यात् तमसो ग्रहः । इति बान्यं यतः कृष्णरात्री तारकतेजसि ॥१५|| अन्धकारो दृशा ग्राह्यो पथार्थः पुरुषादिकः । अन्यवासोऽपि भाभायं भवेद् दृगविषयी विशाम् ।।१६।। तथा च तैरभ्युपेता भावस्याभावरूपता । ततोऽभूदिच्छतां तेषामायं मूलव्ययोदय: ॥१७॥ प्रकाशेन प्रभातायां विभायाँ यथेक्षणात् । ध्वान्तं तनुभृतां ग्राह्यं तथा घस्त्रेऽस्तु तद्ग्रहः ॥१८॥ दिवसे च क्वचित्तेजोमिश्रितं गृह्यते ततः । प्रत्यक्षेण प्रतीतं तत् तथाभूतं सतामपि ।।१९।। तस्मात् सर्वत्र यत्र स्याद् द्युतीनामसदंशता । तन्मते तिमिराकारा तत्र तासां कथं न सा ॥२०॥ अपि च कचिदु(द्) द्योतान्यन्ताभावो विभा विना । कृष्णस्तस्यां च दृग्ग्राह्यो कृष्णोऽप्यस्तीति कौतुकम् ॥२१|| अधात्युत्कट (१व) - के न तमोऽभावरूपभृत । भवेद् विशा दृशा ग्राह्यमित्यत्रोत्तरमुत्तमम् ।।२२।। इति चेत् तर्हि नो तस्मिँस्तादृशे रूपवत्तमः । दृग्ग्राह्यमित्यपि व्यक्तुं - वक्त्तुः का वाक्यवक्रता ।।२३।। भाभाववत्तमोभावः प्रत्यक्षेण प्रवर्ततं । परं चतुर्श्वभावेषु तैः स्थितिः क्यास्य कल्पिता ||२४|| प्रत्यक्ष भ्रान्तमेवेदमिति चेत् तर्हि तैः परैः । अर्चिषां प्रतिषेधेऽपि तत् तथा कथितं न किम् ।।२५|| किञ्च रूपावारकाद्य अहीना इह हेतरः । तदा हिताहिता एते पूर्वाचार्यः प्ररूपिताः ॥२६॥ ज्ञेयास्ते तत्कृतग्रन्धाधुक्त्याडम्बरबन्धुराः । वक्र (कत्र) - बक्तृ - वचोवृक्षव्यूहप्रध्वंससिन्धुराः ॥२७।। अधालोकं विना नृणां नेत्रेण ग्रहणात् तमः | अभावरूपं विख्यातं ततस्ते हेतबो हताः ॥२८॥ प्रागभावदयो भावा भणिता नात्र शोभनाः । भूछायेष्वभ्युपेता तदत्यन्ताभावता भवेत् ||२९|| उपायोऽयमपि प्रौढः पण्डितपर्षदि । युक्त्तयुक्त्तिचियुक्त्तत्वात् प्रतीप: स्यात् तदीप्सिते ||३०|| __ यतस्तैजसरूपत्वादालोकापेक्षयेक्षणात् । ग्राह्यतास्त्वन्धकाराणामनपादादिदर्शने ||३१|| तथा चासिद्धविद्धत्वात् तदुक्तो हेतुरातुरः । अतः पूर्वगुरूपनाः स्युर्हेतवस्तेऽनुपद्रवाः ॥३२॥ हेतावन्यालोकाकूते कथिते विद्युदादिभिः । व्यभिचारो दु:स्वभावो भ्राजते भीषणो भृशम् ।।३३|| साध्यासाध्य-सधकल्वे स्यादसी सदृशः सदा | अतः प्रकरणसमदोषदुष्टस्तु तन्मते ||३४|| अयं हेतुरित्यकान्तः सकल: शकलीकृतः । कथं करोति संक्रान्तं तत् स्वान्तेषु समीहितम् ||३५|| आत्रालोकाभावरूपो दृष्टान्तोऽपि चयः श्रुतः । स तु तेषामपि मते पाण्डित्यापोहपोषकः ॥३६।। अथास्तु हेतुर्व्यतिरेक्यसी नः पटश्च दृष्टान्ततया पटिष्ठः । तथाऽप्यनैकान्तिकताङ्गनाऽस्य संसर्गरङ्गानिवृत्तिमेति ॥३७॥
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy