SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ स्थानमगमत् । चक्रीवोष्टमतपसः पारणमकरोत् । अथोत्तरदक्षिणादिक्षु तमिस्रागद्दरद्वारमुद्याच्य alt समरं विधाय air जिल्ला त्रिखण्डों महीं संसाध्य गङ्गातीरमागत्य तस्थौ । तत्र च वर्षसहस्रं स्थित्वा परावर्तमा चणि नवनिधयः प्रकटीभूवुः । तदर्थं चक्री तत्र महोत्सवं विततान तानि च नवनिधानानि द्वादशयोजनलंबितानि, नवयोजनो - विदेशिहद्वारे तिष्ठन्ति । परं तेषु पुरापि केचन न प्रविविशुर्न वा प्रवेष्टारः सन्ति । इत्थं तस्य चक्रिणः कनकरजतरत्नाकराणां विंशशिर सहस्रं विद्यते । पट्खण्डानां साम्राज्यमितोऽपि बहुधिकं जायते तादृशी प्रभुता तु कस्याऽपि न भवति । अष्टचत्वारिंशत्सहस्रं पाटणं, महानगराणि च द्विसप्ततिसहस्राणि सहस्राणां विंशतिः खेटक, एवं कर्वट - मण्डपद्रोणप्रमुख ग्रामाणां षष्णचतिकोटिरासीत् । तथा चतुरशीति २ लक्षप्रमाणं गजतुरगस्थं, षण्णवतिकोटिः पदातीनां पण्डितानां षष्टिसहस्रं, ध्वजिनां दशकोटिरभूत् । पंचलक्षाणि महादीपकधरा, लक्षाधिकद्विनवतिसहस्रं दाराणामासन् । देशानां द्वात्रिंशत्सहस्रं बभूव चै द्वात्रिंशत्सहस्रं मुकुटबद्वानां माण्डलिक भूपालानामादेशकारिणां ईदृशीं महतीमनन्यसाधारणां समृद्धिमापन भरतचक्रवर्ती सोऽयोध्यामागतवास्तत्र च द्वादशवर्षाणि महामहं प्रावर्तयस चिरं त्रिखण्डामिमां महीमन्वशात् । अथैकदा स चादर्शभवने सुखासीनो दिव्याम्बराभरणमण्डितात्मा तनुच्छचि पश्यन् भूषण विहीनामंगुलीभशोभनामवेदीत् । तदनु सर्वाभरणानि शरीरतोऽपनीय सर्वामपि पौली मायामर्थात् - शरीरमिदं यद्भूषणवसनादिना शोभते, तदनित्यमेवेति भावनां भावयामास । इत्थं भावयतस्तस्य कैवल्यमुदपद्यत, तत्रावसरे शासन देवता तस्मै साधुवेपमशेषं दतवती । तदनु स चक्री त्यक्तराज्यो दशसहस्रराजन्यैः सह विजहार । अथ महीं पावयन् FORG
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy