________________
जिनस्तुतिः त्रिभुवनगुरो ! जिनेश्वर परमानन्दैककारणं कुरुष्व । मयि किङ्करेऽत्र करुणां यथा तथा जायते मुक्तिः ॥१॥ निर्विष्णोऽहं नितरामईन् बहुदुःखया भवस्थित्या । अपुनर्भवाय भवहर कुरु करुणामत्र, मयि दीने ||२|| उद्भर मां पतितमतो विषमाद्भवकूपतः कृपां कृत्वा । अहेन्नलमुद्धरणे त्वमसीति पुनः पुनर्वच्मि ॥३॥ स्वं कारुणिका स्वामी स्वमेव शरणं जिनेश तेनाऽहम् । मोहरिपुदलितमानं पूत्करणं तत्र पुरः कुर्वे ॥४॥ प्रामपतेरपि करुणा परेण केसाप्युपद्रुते पुंसि । जगतां प्रभो! नकिं तव जिन मयि खलु कर्मभिः प्रहते ॥५।। अपहर मम जन्म दयां कृत्वा चेत्येकवचसि वक्तव्यं । तेनाविदग्ध इति मे देव बभूव प्रलापित्वम् ॥६॥ तब जिन चरणाजयुगं करुणामृतशीतलं यावत् । संसारतापतप्तः करोमि हृदि तावदेव सुखी ॥७॥ जगदेकशरण ! भगवन् ! नौमि श्रीपचनन्दितगुणोध । कि बहुना कुरु करुणामत्र जने शरणमापन्ने ||८||