________________
सूक्तिमुक्तावली
इति जिनमतप्रस्तावः अथ चतुर्मियतः संघस्य महिमानमाह
शालविक्रीदितछन्दः रत्नानामिव रोइणक्षितिधरः खं तारकाणामिव स्वर्ग:कल्पमहीरुहामिव सरः पङ्के रुहाणामिव । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः ||२१||
व्याख्या--भो भव्या इत्यालोच्य इति विचाय्य भगवतः पूज्यस्य संधत्य पूजाविधिविरच्यतां इतीति किं यतः असौ संघः साधुसाध्वीश्रावक श्राविकारूपश्च चतुर्विधसंघः सर्वगुणानां शानदर्शनचारित्रविनयादीनां स्थान निवासः । कः केषामिव । रोहणक्षितिधरः । रोहणश्चासौ क्षितिधरश्च पर्वतश्च रत्नानामिव यथा रोहणाचलो रस्नानां स्थान तथेत्यर्थः । पुनः खं आकाशं तारकाणामिव पुनर्यथा स्वर्गः फल्पमहीरुहा कल्पवृक्षाणां स्थानं तथेत्यर्थः । पुनर्यथा । सरस्तडाग: पंकेरुहाणों कमलानां स्थान तथा । पुनर्यथा पायोधिः समुद्रः पयसां पानीयाना स्थानं तथा किंभूतानां पयसा इंदुमहसां इंदुवन्निमलानां अथवा सशीव महसा इति वा पाठः । यथा शशी चन्द्रो महस तेजस्थानं तथासौ संघो गुणानां स्थानं । इन्दुवात् महो येषां तानि इन्दुमहांसि तेषां एवं श्रीचतुर्षिधसंघः सर्वगुणानां स्थानं इति ज्ञात्वा श्रीसंघस्य भक्ति: कार्या। कुर्वतां च सतां यत्पण्यमुत्पद्यते तत्पण्यप्रसादादुचरोत्तरमांगलिक्यमाला रिस्सरन्तु ॥ २१ ॥