________________
परिशिष्ट न लक्ष्मीमती-कथानक (जिनसेन-इरिवंशपुराण ६०, २५-४० ) ( सन ७८३ ई०) .
अत्रैष भरतक्षेत्रे विषये मगधाभिधे। ब्रामणी सोमदेवस्य लक्ष्मीनामे ऽप्रजन्मनः ।।१।। आसीलक्ष्मीमती नाम्ना लक्ष्मीरिब सुलक्षणा । रूपाभिमानतो मूहा पूज्यान्न प्रतिमन्यते ॥२॥ धृतप्रसाधना वक्त्रं कदाचिचित्तहारिणी । नेत्रहारिणि चन्द्राभे पश्यन्ती मणिदर्षणे ॥३॥ समाधिगुमनामानं तपसातिकशीकृतम् । साधु भिक्षागतं दृष्ट्वा निनिन्द विचिकित्सिता ॥६॥ मुनिन्द्रातिपापेन सप्ताहाभ्यन्तरे च सा । क्लिमोदुम्बरकुष्टेन प्रविश्याग्निमगान्मृतिम् ।।शा सहार्ता सा लरी भूत्वा मृत्वा लवणभारतः। शूकरी मानदोषेण जाता राजगृहे पुरे ॥६॥ पराको मारिता मृत्वा गोष्जायत, कुक्कुरी। गोष्वागतेन सा वग्धा परुषेण दवाग्निना || त्रिपदास्यस्य मण्डूक्या भण्डूकनामयासिनः। मत्स्यबन्धस्य जाता सा दुहिता पूनिगन्धिका ।।८।। मात्रा स्यक्ता स्वपापेन पितामह्या प्रवर्धिता। निष्कुटे वटवृक्षस्य जालेताच्छादयन्मुनिम् ॥६॥ बोधितावविनेत्रेण प्रभाते करुणावता। धर्म समाधिगुप्तेन प्रोक्तपूर्वभवाग्रहीत् ॥११॥ पुरं सोपारक याता तत्रार्याः समुपास्य सा । ययौ राजगृहं ताभिः कुर्वाणाचाम्लवर्धनम् ।।११।। अत्र सिद्धशिलो बन्यां वन्दित्वा च स्थिता सती । कृत्वा नीलगुहायां सा सती सल्लखना मृता ।।१२।। अच्युतेन्द्रमहादेवो नाम्ना गगनबल्लभा । बल्लभाभवदुत्कृष्टस्त्रीस्थितिस्तत्र देव्यसौ ॥१३॥ ततोऽवतीर्य भीष्मस्य श्रीमत्या त्वं सुताऽभवः। नगरे कुण्डिनाभिख्ये रुक्मिणी रुक्मिणः स्वसा |१४|| कृत्वा धात्र भवे भव्ये प्रव्रज्या विबुधात्तमः। “युत्वा तपश्च त्वान नैर्मन्व्यं माक्ष्यसे ध्रुवम् ॥१५॥