________________
जिनसहस्रनामस्तवनम्
महाकृपालुनैरात्म्य,वादी सन्तानशासकः । सामान्यलक्षरणचरणः,पञ्चस्कन्धमयात्मक ॥११॥ भूतार्थभावनासिद्ध,श्चतुर्भूमिकशासनः । चतुरार्यसत्यवक्ता, निराश्रयचिदन्वयः ॥११३॥ योगो वैशेषिकस्तुच्छा, भावभित् षट्पदार्थहक । नयायिकः षोडशार्थ,वादी पञ्चार्थवर्णकः ॥११४॥ ज्ञानान्तराध्यक्षबोधः, समवायवशार्थभित् । भुक्तकसाध्यकर्मान्तो, निविशेषगुणामृतः ॥११॥ साङ्ख्यः समीक्ष्यः कपिलः, पञ्चविंशतितत्ववित् । व्यक्ताव्यक्तजविज्ञानी, ज्ञानचैतन्यभेवहा ॥११६॥ अस्वसंविदितज्ञान, धादी सत्कार्यवादसात् । त्रिप्रमाणोऽक्षप्रमाणः, स्याद्वाहङ्गारिकाक्षदिक ।।११७।। क्षेत्रज्ञ प्रात्मा पुरुषो, नरो ना चेतनः पुमान् । अकर्ता निर्गुणोऽमूर्तो, भोक्ता सर्वगतोऽक्रियः ॥११॥ द्रष्टा तटस्थः कूटस्थोः, ज्ञाता निर्बन्धनोऽभवः । बहिविकारो निर्मोक्षः, प्रधानं बहुधानकम् ॥११६॥ प्रकृतिः ख्यातिरारूद, प्रकृतिः प्रकृतिप्रियः । प्रधानभोज्योऽप्रकृति, विरम्यो विकृतिः कृती ॥१२०॥ मीमांसकोऽस्तसर्वज्ञः, श्रुतिपूतः सदोत्सवः । परोक्षज्ञानवादीष्ट, पायक: सिद्धकर्मकः ॥१२।।