________________
सरस्वतीस्तुति
गगनपुद्गलधर्मतवन्यकैः, सह सदा सगुणांश्चिदनेहसः । कलयतीह नरो यदनुग्रहात, चिदुपलब्धिमियं वितनोतु मे ॥६ गुरुरयं हितवाक्यमिदं गुरोः, शुभमिदं जगतामथवाशुभस् । यतिजनो हि यतोऽत्र विलोकते, चिदुपलब्धिमियं वितनोतु मे ॥७ त्यजति दुर्मतिमेव शुभे मति, प्रतिदिनं कुरुते च गुणे रतिम् । जडनरोऽपि ययापितधोधनश्चिदुपलब्धिमियं वितनोतु मे ॥८ खलु नरस्य मनो रमणोजने, न रमते रमते परमात्मनि । यदनुभक्तिपरस्य वरस्य वे, चिदुपलब्धिमियं वितनोतु मे ॥ विविध काव्यकृते मतिसम्भवो, भवति चापि तदर्थविचारणे। यदनुभक्तिभरान्वितमानवे, चिदुपलहियमियं वितनोतु मे ॥१०