________________
श्रीगौतमस्तोत्रम्
यं स्तोति स्म च तादृशोऽप्युपनत, श्रेयः स पाश्चों विभुविकार परिसादसिखायास्थ सिछोहताम् ।। ८ ।। जातः प्राइमरुभूतिरविभपतिदेवः सहस्त्रारजो । विधेशोऽच्युतकल्पजः क्षितिभृतां श्रीवजनाभिः पतिः । देवो मध्यममध्यमे नृपगुणैरानन्दनामाऽऽनते । देवेन्द्रो हतघातिसंहतिर-बत्वस्मान्म पार्श्वेश्वर ।। ९ ।।
इति श्रीपार्श्वनाथस्तोत्रम्
श्रीगौतमस्तोत्रम् श्रीइन्द्र भृति बसुभूतिपुत्र, पृथ्वीभवं गौतमगोत्ररत्नं । स्तुवन्ति देवाः सुरमानवेन्द्राः, स गौतमो यच्छतु बाञ्चितं मे१ श्रीवर्धमानात् समवाप्य दीक्षा, मुहूर्तमात्रेण कृतानि येन | अङ्गानि पूर्वाणि चतुर्दशानि, स गौतमो यच्छतु वाञ्छितं मे२१ श्रीवीरनाथेन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवरा समग्राः. स गौतमो यच्छतु वाञ्छितं मे।३ यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षा भ्रमणस्य काले । मिष्टान्नपानादिमिः पूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ।४ अष्टापदाद्री गगने स्वशक्त्या, ययौ जिनानां पदबन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छित मे।।५ त्रिपञ्चसङ्ख्याशततापसानां तपः कृशानामपुनर्भवाय । अक्षीणलब्ध्या परमानदाता स गौतमो यच्छतु वाञ्छित मे।।६।।