________________
सिद्धान्तासिंग
दोणि तदो पंचसु तिसु णायव्वो जोगपच्चाई इक्को । सामण्णपचया इदि अद्वयं होंति कम्माणं ॥ ७२ ॥
४८
मिथ्यात्वे चतुःप्रत्ययो बन्धः सासनद्विके त्रिप्रत्ययः । ते विरतियुता अविरतदेशगुणे उपरिमाद्विकं च ॥ द्वौ ततः पंचसु त्रिषु ज्ञातव्यो योगप्रत्यय एकः । सामान्यप्रत्यया इति अष्टानां भवन्ति कर्मणा ||
I
7
गाथाद्वयेन सम्बन्धः । मिच्छे चउपञ्चइओ बन्धो—- चतुः प्रत्ययजो बन्धः, कोऽर्थः ! मिध्यात्वगुणस्थाने मिथ्यात्वाविरतिकषाययोगानां चतुणौ प्रत्ययानां बन्धो भवतीत्यर्थः । सासणदुगे -- द्वितीयसासादनगुणस्थाने तृतीय मिश्र गुणस्थाने च, तिपन्नइओ - त्रिप्रत्ययजो बन्धः । कोऽर्थः ? सासादन मिश्र गुणस्थानयोरविरतिकषाययोगानां बन्धः स्यादित्यर्थः । तेऽविरइत्यादि । अविरइदे सगुणे – चतुर्थेऽचिरति गुणस्थाने पंचमे देशविरतिगुणस्थाने च ते इति ते प्रत्यया भवन्ति । कति भवन्तीत्याशंकायामाह-- उवरिमदुगं— उपरिमद्वयं कषाययोगयुग्मं । कथंभूतं ! अविरतियुक्तं एवं त्रयः प्रत्यया भवन्ति, कोऽर्थः ? अविरतिदेश वितिगुणस्थानयोर्द्वयोरविरतिकषाययोगानां त्रयाणां प्रत्ययानां बन्धो भवतात्यथ: 1 दोणि तदो पंचसु - इति, ततो देशविरतिगुणस्थानात्, पंचसु - इति, पंचगुणस्थानेषु प्रमत्ताप्रभत्तापूर्वकरणानिवृत्तिकरण सूक्ष्मसाम्परायाभिधानेषु दोण्णि— हौ प्रत्ययो ज्ञातव्यों को भावः ? प्रमत्तादिपंचसु गुणस्थानेषु कषाययोगयोर्द्वयोर्बन्ध इति भावः । ततः, तिसु- इति, त्रिषु गुणस्थानेषु योगप्रत्यस्यैकस्य बन्ध इत्यर्थः । इदि ---- इति अमुना प्रकारेण, अद्वण्हे कम्माणं — ज्ञानावरणादीनामष्टानां कर्मणां सामण्णपचया – सामान्येन मिथ्यात्वादिप्रत्यया बन्धकारणानि भवन्ति ॥ ७१-७२ ॥
2
४"
7