________________
सिद्धान्तसारादिसंग्रहे
cung cấp tới và là quan trong đội tuyển tuyến Hệ thống c
२२
अथ चतुर्दशमार्गणास्थानेषु द्वादशोपयोगाः कथ्यन्ते --~~ णव णव बार्स णव गहचउक्कए तिष्णि इगिवितियक्खे | चरखे उचओगा चड बारस हुँति पंचक्खे ॥ ३२ ॥
.
नव नव द्वादश नव गतिचतु त्रय एकदिव्य । चतुरक्षे उपयोगाश्चत्वारो द्वादश भवन्ति पंचाक्षे || णचेत्यादि । गतिचतुष्के, व पात्र बारस पात्र नब नब द्वादश नव | अत्र यथासंख्याकारः । तद्यथा । नरकगतौ नवोपयोगाः । ते के ? कुमति - कुश्रुत - कवधि - सम्यज्ञानत्रीणि चक्षुरचक्षुरवधिदर्शनानि त्रीणि, एवं उपयोगा नव नरकगतौ नारकाणां ज्ञेयाः । तिर्यग्गतावपि एते एव उपयोगा नव भवन्ति । मनुष्यगतौ द्वादशोपयोगा भवन्ति । ते के कुमति - कुश्रुत कवधि - सुमति - सुश्रुताऽवधि - मन:पर्ययकेवलज्ञानान्यष्टौ चक्षुरचक्षुरधिकेवलदर्शनानि चत्वारि एवं द्वादशोपयोगा मनुष्यगतौ मनुष्याणां ज्ञातव्या इत्यर्थः । देवगतौ नव ये नारकगतावुक्तास्त एवोपयोगा नत्र भवन्ति । इति गतिमार्गणा । तिष्णि इगिवितियक्खे एकेन्द्रिये द्वीन्द्रिये श्रीन्द्रिये च तिणि इत्युपययोगत्रयं भवति । कुमति - कुश्रुतज्ञानद्वयं अचक्षुर्दर्शनमेकमिति त्रयं । चउरक्खे उबओगा — चतुरिन्द्रिये उपयोगाश्चत्वारः । ते के? कुमति कुश्रुतज्ञानोपयोगौ द्वौ चक्षुरचक्षुर्दर्शनोपयोगौ द्वौ एवं चत्वारः । बारस हुति पंचक्खे -- पंचाक्षे पंचेन्द्रिये द्वादशोपयोगा भवन्ति मनुष्यापेक्षया ! इतीन्द्रियमार्गणा ॥ ३२ ॥
कमई कुसुर्य अचक् तिष्णि वि भूआउतेउवाजवणे । बारस तसेसु मणवचिसच्चाणुभएतु वारस वि ॥ ३३ ॥ कुमतिः कुश्रुतं अचक्षुः त्रयोऽपि स्वप्तेजोवायुवनस्पतिषु । द्वादश त्रसेषु मनोवचनसत्यानुभयेषु द्वादशापि ॥
-
72
PLA