________________
श्रीभानुकीर्तिविरचित शंखदेवाष्टकम् ।
शतमखशतवन्धो मोक्षकान्ताभिनन्यो
दलितमदनचापः प्राप्तकैवल्यरूपः । कुमतवनकुठारः शंखरत्नावतारः
त्रिभुवननुतदेवः पातु मां शंखदेवः ॥१॥ अभिमतफलरूपो विश्वलोकप्रदीप
स्तुहिनगगनमूर्तिः स्फारकल्यारकीर्तिः । सुकृतजनसवासो मोक्षलक्ष्मी विलासः
त्रिभुवननुतदेवः पातु मां शंखदेवः ॥ २ ।। अगणितमहिमेशो जानवोधोपदेशः
सहजपरमकायः प्राप्तनिर्वाणमेहः । अधिगतपरमार्थो ज्ञानसज्ञानतीर्थः
त्रिभुवननुतदेवः पातु मां शंखदेवः ॥ ३ ॥ गुणमणिगणधारो भव्यभाग्यावतारो
विबुधवनवसन्ती मोक्षलक्ष्मीकान्तः । त्यजतमलकलंको धौतसंसारपंकः
त्रिभुवननुतदेवः पातु मां शंखदेवः ॥ ४ ॥ दिविजमनुजपूज्यस्त्यक्तसाम्राज्यराज्यो
वृजिननिकरनाशः सर्वतत्त्वप्रकाशः।