________________
श्रीशिवकोट्याचार्यविरचिता
रत्नमाला।
सर्वज्ञ सर्ववागीशं वीरं मारमदापहं । प्रणमामि महामोहशान्तये मुक्तताप्तये ।।१।। सारं यत्सर्वसारेषु वन्य यद्वन्दितेष्वपि । अनेकान्तमयं वन्दे तदईद्वचनं सदा ॥२॥ सदाबदातमहिमा सदा ध्यानपरायणः । सिसरेबुनिर्जीवामदारकपडेबहः | खामी समन्तभद्रो मेऽहर्निशं मानसेऽनघः । तिष्ठताजिनराजोद्यच्छासनाम्बुधिचन्द्रमाः ॥४॥ वर्द्धमानजिनाभावाद्भारते भव्यजन्तवः। कृतेन येन राजन्ते तदहं कथयामि वः ॥५|| सम्यक्त्वं सर्वजन्तूनां श्रेयः श्रेयःपदार्थिनां । विना तेन व्रतः सर्वोऽप्यकल्प्यो मुक्तिहेतवे ॥६॥ निर्विकल्पश्चिदानन्दः परमेष्ठी सनातनः । दोषातीतो जिनो देवस्तदुपर्श श्रुतिः परा ॥७॥ निरम्बरो निरारम्भो नित्यानन्दपदार्थनः । धर्मदिक्कमधिक साधुगुरुरित्युच्यते बुधैः ? ॥८॥ अमीषां पुण्य हेतूनां श्रद्धान तन्निगद्यते । तदेव परमं तत्वं तदेव परमं पदम् ।।९।।