SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीयोगीन्द्रदेव-विरचिता। अमृताशीतिः। । विश्वप्रकाशिमहिमानममानमेक__ मोमक्षराधखिलवाङ्मयहेतुभूत ।। यं शंकर सुगतमाधवमीशमाहुरहन्तमूर्जितमहन्तमहं नमामि ॥ १॥ अर्थोपार्जनप्रयासः । भ्रातः ! प्रभातसमये त्वरितः किमर्थ मर्थाय चेत्स च सुखाय ततः स सार्थः । यद्येवमाशु कुरु पुण्यमतोर्थसिद्धिः पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥२॥ धर्मादयो हि हितहेतुतया प्रसिद्धा धर्माद्धनं धनत ईहितवस्तुसिद्धिः । चुवेति मुग्ध ! हितकारि विधेहि पुण्य पुण्यर्विना न हि भवन्ति समीहितार्थाः ॥ ३ ॥ वार्तादिभिर्यदि धनं नियतं जनानां निस्वः कथं भवति कोऽपि कृपीवलादिः । ज्ञात्वेति रे मम बचश्चतुराः स्वपुण्यैः पुण्यविना न हि भवन्ति समीहितार्थाः ॥ ४ ॥ प्रारभ्यते भुवि बुधेन धियाधिगम्य तत्कर्म येन जगतोऽपि सुखोदयः स्यात् ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy