________________
श्रीयोगीन्द्रदेव-विरचिता।
अमृताशीतिः।
।
विश्वप्रकाशिमहिमानममानमेक__ मोमक्षराधखिलवाङ्मयहेतुभूत ।। यं शंकर सुगतमाधवमीशमाहुरहन्तमूर्जितमहन्तमहं नमामि ॥ १॥
अर्थोपार्जनप्रयासः । भ्रातः ! प्रभातसमये त्वरितः किमर्थ
मर्थाय चेत्स च सुखाय ततः स सार्थः । यद्येवमाशु कुरु पुण्यमतोर्थसिद्धिः
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥२॥ धर्मादयो हि हितहेतुतया प्रसिद्धा
धर्माद्धनं धनत ईहितवस्तुसिद्धिः । चुवेति मुग्ध ! हितकारि विधेहि पुण्य
पुण्यर्विना न हि भवन्ति समीहितार्थाः ॥ ३ ॥ वार्तादिभिर्यदि धनं नियतं जनानां
निस्वः कथं भवति कोऽपि कृपीवलादिः । ज्ञात्वेति रे मम बचश्चतुराः स्वपुण्यैः
पुण्यविना न हि भवन्ति समीहितार्थाः ॥ ४ ॥ प्रारभ्यते भुवि बुधेन धियाधिगम्य
तत्कर्म येन जगतोऽपि सुखोदयः स्यात् ।