________________
বীথিকাৰ:
[ १५६ नैऋत्य दिकस्थित प्रासादेषु सौधर्मेन्द्र स्वामी लोकपालादि देव शचीभिः समं विविधा क्रीडा करोति । वायव्येशान दिग्भागस्थ गेहेवैशानेन्द्रः पतिः देव्यादिभिश्चमुदा क्रीडति । यथारनन्दनबनेशपीप्रासादाः सौधर्मशानेन्द्रयोगिता. तथोक्तक्रमेणकापीप्रासादाः सर्वे सौमनसबनेऽपि भवन्ति नात्रकश्चितिशेपः ।
पाण्डुकवने चूलिकायाः प्रदक्षिणं ऐशानादि विदिक्षुशत योजनायामाः पञ्चाशद्योजनविस्तीर्णाः अष्टयोजनोन्नताः अर्धचन्द्रोपमाः रत्नतोरणवेदिकाद्यलंकृताः स्वस्वक्षेत्रसन्मुखाः स्फुरत्त जोमयाः पाण्डुकशिलाद्याश्चतस्रोदिभ्याः शिलाः सन्ति । तासामाद्या स्वर्णवर्णा पूर्वापरदीर्घा भरतक्षेत्रोत्पन्नतीर्थकराणां जन्मस्नान पीठिका पाण्डुकशिला भवति। द्वितीया अर्जुनच्छाया दक्षिणोत्तरदोर्घा अपरविदेहज जिनेंद्वारणां अन्माभिषेक पीठिका पाण्डु कम्मलाच्या प्राग्ने यदिशि शिलास्ति ! तृतीयातपनीयनिभापूर्वापरदीर्घा, ऐरावतवर्षज तीर्थकृज्जन्माभिषेकनिबद्धा रक्ताह्वया नैऋत्यदिग्भागे शिला स्यात् । चतुर्थीपद्मवर्णा दक्षिगोत्तरदीर्घा पूर्व विदेहजातश्री जिनानां जन्मस्नानहेतुभूतावाधुदिमागे रक्तकाम्बलास्थाशिलाविद्यते । प्रासां चतुः शिलानामुपरिप्रत्येक स्फुरद्रत्नमयानि श्रीणि सिंहासनानि भवन्ति । तेषां सिंहासनानां मध्यस्थ सिंहासन पञ्चशतधनुस्त्तु गं, पञ्चशतचापभूविस्तृत साध द्विशतदण्डानन्यासं तीर्थकृतां जन्माभिषेकस्थित्यं स्यात् । दक्षिण दिग्भागस्थितं सिंहासनं जिनाभिषेक समये सौधर्मेन्द्रस्योपवेशनाय भवति । उत्तरदिशास्थहरिविष्टरं तीर्थ कृज्जन्माभिषेचनसमये ऐशानेन्द्रस्य संस्थितयेऽस्ति।
घण्टासिंहनाद शङ्खस्वरभेरीध्वानासन कम्पनादि चिन्हैजिनोत्पनि विज्ञायकल्पवासिज्योतिष्कभवनवासिव्यन्तरवासवाः, परया भूत्या छत्र ध्वज विमानाद्य नभोगणमाच्छादयन्त:, नाना पटहादिध्यानर्वधिरीकृत दिग्मुखाः, तोर्याउनन्माभिषेकोत्सवाय सानन्दाः, धर्मरागरसोत्कटा मेमप्रति स्वस्थानादागच्छन्ति । तस्मिन् जन्माभिषेक समये इंद्राणां मुख्यः सामर: ऐरावतगजेन्द्रारूढः त्रिभिः [तिसृभिः] परिषद्भिः सप्तानोकरचालं कृतः सौधर्मेद्रः स्वर्गादत्रायाति । अस्येन्द्रस्य प्रथमायाम पन्त रायां परिषधि दिव्यरूपानना: प्रहरणाभरणाचलंकृताः, द्वादश लक्षदेवा भवन्ति । मध्यमपरिषदिचतुर्दशलक्षाः सुराः, बाह्यपरिषदि षोडशलक्षनिर्जराः भवेयु । अन्तमध्यबाह्यपरिषदां क्रमेगा रवि-मशि-यदुपामहत्तरमराः सन्ति । वृषभरथतुरंग गजनृत्यानोकगन्धर्वभूत्यनामानि प्रत्येक सप्तसप्तकक्षायुतानि, सप्तानीका नि प्रथमदेवराजस्य पुरो महताडम्बरेण जन्माभिरेक समये ब्रजन्ति । प्राद्य कक्षायां शंख कुन्देन्दु धवलाश्चतुरशीलिलक्षाः वृषभाः गच्छन्ति । अष्टषष्टिलक्षेककोटि वृषभाः जपापुष्पाभाश्च द्वितीय कक्षायां यान्तिस्म । तृतीयानीके नीलोत्पल सन्निभाः षट्त्रिंशल्लक्षत्रिकोटि वृषभाश्च । चतुर्यानीके द्विसप्ततिलक्षषट्कोटिवृषभाः मरकतमरिणवर्णाश्च । पञ्चम्यां कक्षायां कनकनिभाश्चत्वारिंशल्लक्षत्रयोदशकोटिवृषभाश्च । षष्टयां अजनाभाः अष्टाशी तिलक्षषड्विंशतिकोटि वृषभाश्च । सामानीफे किंशुक कुसुमप्रभाः षट् सप्ततिलक्षत्रिपञ्चाशत्कोटिवृषभानजन्ति । ध्वमन्नानापटहादि तुर्यान्तरिताः घण्टाकिंकिणीवरचामरमणिकुसुममालाद्यलंकृताः, रत्नमयमृद्वासनाः, देवकुमारैर्वा हिताः षडधिकशतकोट्यष्टषष्टिलक्षग्रमाः, दिव्यरूपाः सप्तकक्षान्विलाः सर्वे वृषभास्तस्मिन्महोत्सवे व्रजन्ति ।