________________
पञ्चमोऽधिकार :
चित्रकूटं महाकूट हैमकूटं त्रिफूटकम् । मेघकूट विचित्रादिकूटं वैश्ववरणाभिधम् ॥७२॥ सूर्यप्रभाह्वयं चन्द्रप्रभाभिधानकं पुरम् ।। नित्य प्रद्योतसंसं च नित्यामाख्यं पुरं ततः ॥७३॥ विमुखाख्य पुरं नित्यवाहिसंज्ञमिमान्यपि । स्युः श्रेण्या दक्षिणाल्पायर्या पञ्चाशत्सत् पुराणि च ॥७॥ पुरं बसुपुरामिण्यमर्जुनं चारुणाभिधम् । कैलासं वारुणं विद्युत्भं किलिकिलित्पुरम् ॥७५।। चूडामणिपुरं नामशशिप्रभपुरं ततः । विशाल पुष्पचूलाख्यं हंसगर्भ बलाहकम् ।।७६॥ शिवंकरं च श्री सौधं चमरं शिवमन्दिरम् । वसुमत्तापुरी नाम्नी ततो वसुमतीपुरी ॥७७॥ सिद्धार्थनगरी शत्रुजयाभिधानिकापुरी । केतुमालेन्द्रकान्ता गगनानन्दिन्यशोकिका ।।७।। विशोकावीतशोकाख्या चालका तिलकापुरी । अपूर्वतिलका नाम्नी पुरी मन्दिरसंज्ञिका 11७६।। कुमुदायपुरं कुन्दपुरं गगनवल्लभम् । दिव्यादि तिलकं पृथ्वी तिलकाल्यं पुरं ततः ॥८॥ गन्धर्वात्य पुरंमुक्ताहारं च नमिषाह्वयम् । अग्निजालं महाजालं श्रीनिकेतं जयाह्वयम् ॥१॥ श्रीगृहं मरिणयन्त्राख्यं भद्राश्वं च धनञ्जयम् । गोक्षीरफेनमक्षोभं रोलशेखरसंज्ञकम् ॥२॥ पृथ्वोधरं पुरं दुर्ग दुर्धराख्यं सुदर्शनम् । पुरं महेन्द्रसंशं विजयं सुगन्धिनामकम् ॥८३।।
१. प्रद्योति प्र. ज. २. वसुमुखाभिख्य अ. ज. ३. मन्दर अ. ज.