SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १३० ] सिद्धान्तसार दीपक पञ्चशतयोजन विस्तीर्ण प्रशीतियोजनावगाहं रत्नवेदीद्वारतोरणादि मण्डितं कुण्डं स्यात् । तन्मध्ये तोयात् से चतुःषष्टियोजन विष्कम्भो द्वीपोऽस्ति । तन्मध्यभागे प्रशीति योजनोच्छितः, मूले द्वात्रिंशद्योजन विस्तारः, मध्ये षोडशयोजन विष्कम्भः, शिखरे प्रष्टयोजनव्यासः गिरिरस्ति । तस्य मूर्धिन द्वियोजनोन्मतं, महीतले त्रियोजन दीर्घ मध्ये द्वियोजनायाम, मस्तके योजनायतं, क्रोशव्यासं, विशत्यधिक त्रिशतविस्तृत, चत्वारिंशदधिक षट्शतचापोत्त ङ्ग द्वारान्वितं, चतुर्गापुर वेदी बनाद्यलंकृतं दिव्यं गृहं स्यात् । तन्मूनि पद्मणिकान्तः सिंहासनस्थ शाश्वतं जिनबिम्ब विद्यते । सा सीता जिनबिम्बमस्तके प्रवहन्ती अशीति योजन' विस्तीगी, चतुःशतयोजनोत्सेधा, विशतयोजन रद्रिमस्पर्शन्ती कुण्डद्वारेग निर्गस्योत्तरकुरुसंज्ञोत्कृष्ट भोग भूमध्येन गत्वा मेरुसमीपे माल्यवन्तं गजदन्तपर्वतं भित्वा प्रदक्षिणेन योजनार्धन महामेरु विहाय पूर्वभद्रशालब नपूर्व विदेहक्षेत्रमध्येन, पञ्चशतयोजनविष्कम्भा, दशयोजनाबगाहा स्वप्रवेश द्वारेग पूर्वाब्धि प्रविष्टा । पञ्चशतयोजन व्यासं सार्धसरशतयोजनोन्नतं द्वि कोशावगाहं अर्घयोजनस्थल तोरणाहदिम्ब दिक्कन्यावासादि संयुतं तत्प्रवेशद्वार विज्ञेयं । निषधाद्रिस्थ तिगिछद्र हस्य व्यासादिभिः सीतानिर्गम द्वारसमोत्तरद्वारेण सीतातुल्यव्यासावगाहा सोतोदा निर्गत्याचलतटमागत्य विस्ताराद्यैर्नीलगिरिप्रणालीसमप्रणालिकयाधो भूभागे पतति । तत्र विष्कम्भाद्यैः सीतापातसमाना: कुण्डद्वोपादिगेहादयः स्युः । अशीतियोजन विस्तारा, चतु: शतयोजन दीर्घा, द्विशतयोजनैः शैलं मुक्त्या जिनार्चागे प्रवहन्ती सोतोदा नदी कुण्डस्योत्तर द्वारेण निर्गत्य देवकुरुनामोत्तमभोगभूमिक्षेत्रमध्येन गत्वा मेरुसमीपे गजदत्ताचलं भित्त्वा प्रदक्षिणेन क्रोशद्वयेन मेरु विमुच्य पश्चिम भद्रशाल नस्य मध्ये नापरविदेहान्तर्भागनेत्य सीतानिभ, व्यासावगाहा, व्यासाद्यः सीताप्रवेश पूर्वाब्धिद्वारसमपश्चिमद्वारेणापराम्बुधिं गता। __ रुक्मिपर्वतस्थमहापुण्डरीकद्रहस्य दक्षिणाद्वारेण निर्गत्य नारो सरित् शैलतटप्रणाल्या द्विशतयोजनोत्सेधाधोभूस्थ कुण्डमध्ये पनित्वा तद्दक्षिण द्वारेण निर्गत्य रम्यकक्षेत्रमध्ये गत्वा तत्रस्थ नाभिगिरि क्रोशद्रयेन विहाय तस्यैवार्धप्रदक्षिणां कृत्वा पूर्वसमुद्रं प्रविष्टा । नीलपर्वतस्थ केसरीलदस्योत्तरद्वारेण नरकान्तानदी निर्गत्याद्रि तटमागत्य तत्प्रणालिकया चतुः शतयोजनोच्छिनाधोघरातले पतित्वा तत् कुण्डद्वारेण चलित्वा रम्यकक्षेत्रमध्य भूतलमभ्येत्य तत्रस्थं माभिगिरि योजनार्थेन त्यक्त्वा तस्यार्घ प्रदक्षिणा विधाय पश्चिमार्गवं गता अस्मिन् रम्यकाख्य मध्यमभोगभूमिक्षेत्रे हृदद्वयनिर्गमद्वार ध्यासोन्नति नार्यादि द्वि नदी व्यासावगाहप्रणालीद्वयविस्तारादि. पर्वतनद्यन्तरधाराविस्तारकुण्डद्वीपाचल हादिपुर्वापराविधद्वारन्यासोच्छित्यादि सरिदन्तविष्कम्भादयो:खिलाः योजनाद्यैः हरिक्षेत्र समाना मंतन्या: । शिखरिस्यपुण्डरीकद्रहस्यदक्षिणाद्वारेण निर्गत्य स्वर्णकूलाख्यानदी पर्वतान्त प्रणालिकया
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy