SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽधिकारः [ १२६ ध्यासाद्य : रोहित्समाः कुण्डद्वीपाचलगृहादयो विज्ञेयाः । ततः कुण्डस्थोत्तर द्वारेण निर्गत्य हैमवत् क्षे. अमध्यस्य नाभिगिरि योजनार्धन विहाय तस्यार्धे प्रदक्षिणां कृत्वा व्यासाद्य : रोहितसमानारोहितास्या प्रामुक्त विस्तारादिभिः पूर्वद्वारसमापरद्वारेण पश्चिमार्णवं प्रविष्टा । निषधपर्वतस्थ तिगिञ्छाख्य ह्रद. स्य दक्षिणदिग्भागे पञ्चविंशति योजन विस्तृतं साधंसप्तत्रिंशद्योजनोन्नतं द्वि क्रोशावगाहं तोरणात्प्रतिमा दिक्कन्यावासाचलंकृतं वजद्वारमस्ति । तदारात्पञ्चविंशति योजन विस्तारा द्वि क्रोशावगाहा हरिन्नदो निर्गत्य दहण्यासोनाद्रि व्यासार्धमागत्य शैलस्य तटात् पञ्चविंशति योजन व्यास द्वि योजन बाहुल्य द्वि योजनायत गोमुखप्रणालिकया चत्वारिंशद्योजन विस्तीर्णा चतुःशतयोजन दोर्घा, शतयोजनादि मुक्त्वाधो भू भागे पततिस्म । तत्रसार्ध द्विशतयोजन विस्तीर्णं चत्वारिंशद्योजनावगाहं रनवेदीद्वारतोरणाचलंकृतं कुण्डं विद्यते । तन्मध्ये जलादाकाशे द्वात्रिंशद्योजनव्यासो द्वीप: स्यात् । द्वीपमध्ये चस्वारिंशद्योजनोन्नतः, मूलेषोडशयोजनविष्कम्भः, मध्येऽश्योजन विस्तारोऽने चतुर्योजनव्यासोऽनलोऽस्ति तस्य शिरसि योजनोच्छ्रितं, भूतले सार्धयोजनदीर्घ मध्ये योजनायतं, मूनि क्रिोशायाम, अर्धक्रोश व्यास षष्टयनशतधनुः विस्तीर्ण विशत्यधिक त्रिशतचापोच्च द्वाराङ्कित, चतुगोपुर बनवेदिकादि शोभितं, पद्मकरिणका सिंह विष्टरार्हद् विम्बाद्यलंकृतं, दिव्यं भवनं स्यात् । तज्जिनबिम्बाङ्ग प्रवहन्ती सा हरित्कुण्डस्थ दक्षिणद्वारेण निर्गत्य हरिक्षेत्र मध्य भूभागमागत्य तत्रस्य नाभिगिरि योजनार्धन मुक्त्वा तस्याध प्रदक्षिणां कृत्वा सार्ध द्विशत योजन व्यासा पञ्चयोजनावगाहा स्वप्रवेशद्वारेण पूर्वाब्धि गता। सार्धद्विशतयोजन विस्तीर्ण पञ्चसप्तत्यधिकत्रिशतधोजनोत्त ङ्ग विकोशावगाह अर्धयोजनस्थूलं, तोरणाईन्भूति दिक्कन्यावासादि भूषितं तद्धरित् नदी प्रवेशद्वारं ज्ञातथ्यं । महा हिमवत्पर्वतस्थं महापद्मद्रहस्योत्तरदिशि व्यासाद्य प्रागुक्त तिगिच्छदक्षिणद्वारप्रमं द्वारमस्ति । तदुत्तरद्वाराम्निगत्य हरित्समध्यासावगाहा हरिकान्ता सरित् हुदबिस्तारोनाचलव्यासार्धमेत्य ध्यासाय हरिप्रणालीसमप्रणालि कया चत्वारिंशद्योजन विस्तीर्णा द्विशतयोजनोत्सेधा श्र तोक्तयोजनैरचलान्तरं कृत्वाने मस्तकाद्भूतलं पतति । तत्र बिस्ताराद्य : प्रागुक्तहरित्पात समाना: कुण्ड द्वोपादिगृहादयः सन्ति । ततः कुण्डोत्तर द्वारा निर्गत्य हरिक्षेत्रमध्यभागं गत्वा तत्रस्थ नाभिगिरि योजनार्धन विमुच्य तम्या प्रदक्षिणां कृत्वा हरित्सम बिस्तारावगाहा हरिकान्ता नदी व्यासादिभिः प्रागुक्तपूर्वाधिद्वारप्रम स्वप्रवेशद्वारेण पश्चिम समुद्र प्रविष्टा । अथ नीलपर्वतस्थित केसरिद्रहस्य दक्षिणदिग्भागे पञ्चाशद्योजन विस्तीर्ण पञ्चसप्तति योजनोत्सेधं द्विकोशावगाहं तोरणाहंबिम्ब दिक्कन्यावासादि मण्डित बजद्वारं स्यात् । तद् द्वारात्पञ्चाशद्योजनव्यासा योजनावगाहा सीतानदी निर्गत्य गिरिशिरसि द्रहव्यासोना चल य्यासाधू शेलतटं चागता तस्मिन्नद्रौपञ्चाशद्योजन विस्तारा चतुर्योजनायता चतुर्योजनस्थुला गोमुखाकारा प्रणाली भवति । अचलाधो भूतले
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy