SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ [ प्राप्तमतिमान्तोल्लेख: ] संवत् १५४८ वर्षे श्रावणसुदित्रयोदशी सोमे श्रीखरतरगच्छे श्रीजिनेश्वर सूरि सन्ताने श्रीजिनधर्मसूरि पट्टालङ्कारचूडामणिश्रीजिनचन्द्रसूरिवराणां वाचनाय पं० कीचिंहंसमुनिना श्रीधनाहगुणचित्रं चरित्रमलेखि श्रीजेसलमेरुमहादुर्गे चिरं नन्दतु ॥ न मुञ्चन्ते चेतः प्रतिदिवसमस्माकमखिलं गुणा योष्माकीनाः शशिकिरणसंवाद निपुणाः । न यौष्माकीनं नाम प्रतिदिनमनुत्कीर्य नियतं स्वचित्ते चिन्दामः कथमपि समाधानघटनम् ॥ १ ॥ इति गुणगणोदार श्रीधन्यसाधुचरित्रमिदम् || समाप्तम् सूरीश्वरो विजयते सुकृपादिचन्द्रः, शिष्योऽस्ति तस्य सुखसागरपाठको यः । तस्याऽऽज्ञया लिखितवान् सुरते सुरम्यां, सुश्रावको विजयचन्द्र इमां प्रति तु ॥ १ ॥ संवत् १९९२ वर्षे प्रथमभाद्रपदे पर्युषण पर्वान्तर्गत श्रीमहावीरजन्म वाचन - महोत्सवदिने पूर्णीकृतेयं लिखित्वा श्रावकविजयचन्द्रेण । शुभं भवतु ||
SR No.090469
Book TitleDhanya Charitam Padyam
Original Sutra AuthorN/A
AuthorVijayanandsuri
PublisherZZZ Unknown
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy