________________
शरणं स यत् ॥ १५६ ॥ आजीविकामथाधातुं विधातुं कर्मनिर्मितिम् । वृषभान वाहयन्तस्ते, ग्रामाद् ग्रामे पुरात पुरे ॥ १५७ ॥ भ्रमन्तः परितो भ्रष्टा, विनष्टाशा व्यनिष्टया निर्माग्याः सन्ति लाभाय, लोभभाजोऽभितो भुक्म् ॥ १५८ ॥ तेऽथान्यदा मुदाऽपेता, लाभार्थग्रन्थिताशयाः । वाणिज्यव्याजतास्थित्यै, कृत्ये तुद्यतचेतसः। १५९ ।। गोधूमधान्यपण्यन, पौष्टिकानृपमानिति । भृत्वा राजगृह जग्मुः, 'कि दूरं व्यवसायिनाम् १ ( वाणिज्यार्थमभीप्सकाः) ।। १६० ।। चतुष्पथमथास्थाय स्थापयित्वा स्वपौष्टिकान् । विक्रीणन्ति पणीकृत्य, तत्कणानां क्रयाणकम् ॥ १६१ ॥ दैवादसरे त्वस्मि - कस्माद् विस्मयस्मयः । महोत्त (तु) ङ्गाश्वमारूढः, प्रौढः परिवृढो ः || १६२ ।। सोद्रेकानेकसच्छेक सुविवेकजनावृतः । तत्रायातः श्रिया ख्यातो, धन्यः क्षितिपवेश्मतः ॥ १६३ ॥ युग्मम् | धन्यसत्कां श्रियं श्रेष्ठां वीक्ष्योद्वीक्ष्य च नागराः । तद्बन्धूनां तमोवना-मिव नीचैर्गतत्विषाम् ॥ १६४ ॥ लोकाः परस्परं प्रोचुरुच्चकैरेव केवलम् । दैवेनाहो ! कृतं कस्मादन्तरं बान्धवेष्वपि १ ॥ १६५ ॥ युग्मम् । 'न कोऽपि प्रतिमल्लोऽस्ति, दैवस्यावश्यमस्य हि । ततो बलीय एवात्र दैवमेव न चापरम् ' ॥ १६६ ॥ क धन्यः पुण्यनैपुण्य - पाञ्चजन्यसरित्पत्तिः । ते तद्वान्धवा दौस्थ्याSवस्थास्था व्यवस्था ? | १६७ ॥ जनश्रुतिमिति श्रुत्वा धन्यः श्रव्यां बहुश्रुतः । प्रविलोक्योपलक्ष्यापि, दक्षत्वाद् बान्धवांस्तकान् ॥ १६८ ॥ विनीतस्तुरगात् तूर्ण, समुत्तीर्य समुद्र ततः । स्वभ्रानुपादयोर्धन्यः पपात ख्याततद्गुणः ।। १६९ ।। ' सत्सु सन्तस्तु ते सन्ति बहवः क्षितिमण्डले । ये ह्यसत्स्वपि सन्तः स्यु-स्ते द्वित्रा धन्यमन्निभाः ॥ १७० ॥ लज्जिता भ्रातरोऽत्यर्थ, धन्यं दृष्ट्ट्रोपलक्ष्यते । मौनमाददिरेऽमन्दं, लज्जाभाजां तदिङ्गितम् ॥ १७१ ॥ धन्यो महान् महाभक्त्या, युक्त्या सन्मान्य बान्धचान् । गृहीत्वा गृहमानेषी, मनीषी हि करोत्यदः ॥ १७२ ॥ तान् प्रति प्रकृतिप्रीति वचसाऽमीवदद मुदा । पूज्या मे वृद्धव