________________
l
इत्थं धन्धोदिते सयः, सजलजदधोमुखी । व्रते स्म विस्मयस्मेर, वचस्तच्छवणामताम् ॥ २१५ ॥ देवं पृच्छेच्छया । तुच्छ, स्वच्छन्दच्छद्मवत्सलम् । किं मां पृच्छसि हे स्वच्छ !, कर्मकदैमकच्छपीम् ? ॥ २१६ ॥ देवमेव बलीयोऽस्तु, राज-रसमक्रमम् । यजगजन्तुसन्तान, नटबन्नट्यत पटु ॥ २१७ ॥ शालिभद्रस्वसा साऽहं, भद्रा-गोमद्रनन्दिनी । निन्दनीया जने जज्ञ, मन्ये पुण्येन वर्जिता ॥ २१८ ।। भवतामभिधामाजा, बरेण श्रेष्ठिमनुना । परिणीताऽहकं भूय !, धनपालसुतायुता ॥ २१९ ।। कर्मणा कारणात कस्मा दकस्मात् कलहे सति । भ्रातृणां मत्सरोच्छे(त्से)के, सञ्जासे श्रीविघातिनि ॥ २२० ।। मद्भतेरि गते क्वापि, जातमीगनीदृशम् । निरोधो गृहकुम्भेभ्यः, पयोऽपि क्षपयेदह ! ॥ २२१ ॥ यथावृत्ते तयेत्युक्ते, निमुक्त। मान-मायया । दथ्यौ धन्यो धिया साधु, बहुरला वसुन्धरा ।। २२२ ।। ततः पुनरपि प्रोचे, धन्यो नैपुण्यपुण्यधीः। भद्रे ! तब पतिर्यातो, दूरदेशान्तरं परम् ।। २२३ ।। स त्वां विना यदि क्वापि, मृतः स्यादथ जीवति । देशान्तरं नृणां प्रायः, प्रत्यूहव्यूहताबहम् ॥ २२४ ।। कथं मनो विना तन्धि !, त्वं तिष्ठसि वियोगिनी ? | स्त्रीणां तु पतिरेवात्र, सर्वत्र सुपमासुखः ॥ २२५ ॥ यद्वद् रात्रिर्चिना चन्द्र, दिनश्रीदिनपादपि । शस्तन शस्यतेऽवश्य, तद्वत् स्त्रीर्दयिताद् ऋते ।। २२६ ॥ ततः पतिव्रतं त्यक्त्या, मुक्त्वाग्रहकदाग्रहम् । भुन भोगानथो मक्षु, मद्गृहे स्वामिनी भव ॥ २२७ ॥ तद्वचोऽनुचित श्रुत्या, साऽपि व्यापितदुनेयम् । वज्रपातोद्भुतस्त्रान्त-पर्वतस्यापि सर्वतः ।। २२८ ॥ कौँ विधाय पाणिभ्या-मिभ्यम्मरभ्यसूयया। दोदयाञ्चक्रुषी वक्र(क्त्र)नक्रमोटनकृत ततः ॥ २२९ । शान्तं पापमिति प्रोच्य, शोच्यतामोच्यरुपधीः । साशङ्का पङ्कनिर्मुक्त-मदः पद्यं जगाद सा ॥ २३० ॥ उक्तं च--"गतियुगलकमेवोन्मत्नपुष्पोत्करस्य, त्रिनयनतनुपूजा चाथवा भूमिपातः । विमलकुलभवानामङ्गनाना