________________
मृतप्लुताः ॥ ९५॥" अहं त्वनिष्टपापिष्ट-वृद्धपुत्रत्रयोऽत्रपः । दरिद्रो रत्नवद् यत्नाद् , यत् ते न सममालयम् ॥९६ ।। एतत्पुरस्थितो दुःस्था, स्थित्यपेतमना मनाक । लघुवाणिज्यक कर्म, कथं कुर्वे धनं विना ? ॥ ९७ ॥ इति स्फुटं कुटुम्बेन, विमृश्या
न्सरं यात-मद्यतः सद्य एव सः ॥ ९८ ॥ यत्र कोऽपि न जानाति, परमार्थमनर्थकम । परकर्मायि निर्माः || यो-दरं तत्र तु पूर्यते।।९९॥यतः-"सबुद्धेरपि बुद्धिस्तु, निर्धनस्य विनश्यति । घृत-तैलान-पानाप्ति-वस्त्रेन्धन-धनायया ॥१०॥" नदीभिर्यदि नोदीर्ण-पयोभिः परिपूर्यते । तदोदरेषु तूदन्वान्, दीयमानः प्रहीयते ॥ १०१ ॥ इति चिन्ताचिताचान्त-स्वान्तस्तान्तो नितान्ततः । यच्चकारातुरः श्रेष्ठी, तत्स्वरूपं प्ररूप्यते ॥१०२।। धन्यजायाद्वयं त्वाय, प्रेष्य पिगृह बृहत् । श्वशुरश्च पुरस्कृत्य, सुभद्रामित्यभापत ॥ १०३ ॥ भद्रे सुभद्रे ! ते भद्रं, भूयाद् मद्रङ्करं चिरम् । प्रिया हि त्वं पितुर्वेश्म, तिष्ठ तत्र स्थिता सुखम् र
॥१०४॥ कुलस्त्रीभिर्द्वयं श्रेयं, श्रेयोर्थ सम्पदापदोः । पत्युर्वेश्म पितुर्वेश्म, नात्र कापि त्रपा ननु ॥ १०५ || इति श्रुत्वा श्रवोऽपे8| य-मिव तस्य वचश्वयम् । सुभद्रा साऽस्तभदेव, भूते स्म विगतस्मयम् ।। १०६ ॥ हे तात ! भवताऽऽख्यातं भवताऽप्याप्तचेतसा ।। है| अश्रोतव्यगतव्यङ्ग, कुलस्त्रीणां मनागपि ॥ १०७ ॥ त्वया नु ताततुल्येन, मद्धितं कर्तुमिच्छता । तुच्छतावत्सलं प्रोचे-ऽनुचितं |
न्यायसंसदः ।। १०८ ।। तथाप्यहमहङ्कार-विकारचिरवर्जितम् । वदामि दामवत् काम, तत् त्वं कर्णावतंस्य ॥ १०९ ॥ सुखेऽति१) सम्मुखे सम्पत्-सम्पत्तिसमये श्रये स्त्रीभिः पितुहं श्रेय, श्रेयसे यशसेऽजसा ॥ ११०॥ श्वशुरस्य सुरस्येत्र, सेत्य(व्य)गेहमगर्हितम् ।। | दुःखे दौःस्थ्येऽपि संसेव्य, श्वाशुरं रंहसाहसम् ॥ १११ ॥ " कुखी पित्रालयं याति, दुःखे त्यक्त्वा प्रियालयम् । प्रियालयं गताः
सत्य-स्तं त्यजन्ति न सुस्त्रियः ।। ११२ ।। " श्रेष्ठी तद्वचनं पीत्वा, पीयूपमिव सौख्यदम् । सौमनस्य मनस्याध्यात, सुधाशन इवा