SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ SEXSI - - है प्राप्तश्रमो राजा धान्तमश्च रोद्धं मनश्चक्रे तथा कृतऽपि मुखरज्जुसंयमनेऽश्वो द्विगुणजषेन धावितु लग्नो वस्तुतोऽस्पैतादृशी शिक्षेव हैं। विपरीताऽऽसीत् । अतो रोदूं पेटमानेऽपि राजनि सोऽधिकतरं धावितुमलगत् । राज्ञः सैनिकाः सहचराध पश्चादेव स्थितास्तदा| वस्तु धावन्नेव गतवान् , स कुत्र कदा वा स्यास्यतीति निश्चयोऽपि नासीत् । इत्थं चिन्ताविष्टस्य राशो नातिहरे सुशोभितस्तडागस्तस्य समीपस्थ एको वटवृक्षो नेत्रगोचरोऽभूत् । अस्य वृक्षस्याधोभागे गते सति वृक्षशाखामवलम्ब्य घोटकं त्यक्ष्यामीति राजा मनसि निश्चिकाय । दैवयोगादशोऽपि तवृक्षाधस्त एव निःसृतवान् । राजा पृक्षाधो गच्छमेव शाखां गृहीतवान् , इतोऽदृढ़मुखरश्मिरथोऽपि स्वयमेव तत्रैव तस्थौ । एतेन साश्चयों राजा तस्य पगतिशिक्षाप्रदात् । ____ मार्गपरिश्रमेण क्लिभदेहो नृपतिस्तमश्वं तस्मिन्नव वृक्षे बध्वा तडागमभिययौ। निर्मलशीतलजलेनापूर्णः परितः स्फटिकबघहस्तडाग आसीत् । पुनरसौ यथा ग्रीष्मान पथिकानाहय शीतलच्छायाप्रदानेन स्वागत प्रकुर्वनिवासीदिति । राजा हस्तौ पादौ मुखञ्च प्रक्षाल्य किञ्चित्कालं विश्राम कृत्वा जलं च पीत्वा अमेऽपनीते सति तडागमभितो प्रामं भ्राम तस्य मनोहारिणी शोभा द्रष्टुं लमः । एवं परिभ्रमतो राज्ञो दृष्टिलॊहजालिकोपरि पतिता। तस्या अधस्तले कतिचिभिश्रेणयोऽपि दृष्टिपथमागताः । राज्ञा कौतुका. बालमपनीय निर्भीकतया खड्ग हस्ते कृत्वा निःश्रेणिमार्गेण तस्मिन गुप्तस्थाने प्रविवेश्च । निःश्रेणिरचना च नातिदूरं यावदासीदिति किषिदेव दूरं गते राजनि पातालाभ्यन्तरे विशालमेकं वनं राज्ञो नेत्रगोचरमभूत् । धैर्यधर्मपुण्यपुरुषार्थाश्चैते चत्वार एव तस्य सहचराः सद्रक्षका आसन् । यतो नीतिशाखेप्युक्तम् उग्रमं साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्माद्देवोऽपि शकते ।। २॥ . 3 .
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy