________________
क्षेत्र स्वदेशे प्रेषितानि ततस्तेऽपि यथाकालं विमलापुरीं गताः । तत्र तैर्निजमहाराजायाऽखिलं घृतं निवेदितं कुमारसौन्दर्यवर्णनश्च यथापूर्वश्रुतं चक्रिरे । राजा मकरध्वज स्तद्वत्तमाकर्ण्य मुदाऽन्वितोऽभूत्ततो राज्ञा कार्यसाफल्याय तेषां मन्त्रिणां प्रशंसां चक्रे । सभायां वेभ्यो रूप्पकलक्षं पुरस्कारं दत्त्वा से सम्मानिता मन्त्रिणां युक्त्याऽस्मिन् कार्ये कपटशंका तस्य लेशतोऽपि न जाता । इतो मयोपयम समारोहः प्रारेभे, हस्त्यश्वरथादयः सुसज्जीकृता जन्या आगत्यैकत्रिता वभूवुः | नागरिकैः कर्मचारिणो महकारणं पृष्ठे विदितकुमादवशदाः प्रमदमदोन्मत्तास्ते कुमारं विलोक्येणे तस्याम इत्यमंसत । ततः समन्तासद्वार्ता प्रसृतं लग्ना कार्यसंभारानवलोक्यै - कदा रहस्याहूय राज्ञाऽहं पृष्टः- मन्त्रिन् ! किमनर्थः क्रियते १ किं यथार्थ सुशीलायास्तस्याः कुमारिकाया जीवनं नाशयिष्यसि ? कुमारमित्थं कियत्कालं गोपयिष्यसि १ पाणिपीडनकाले तद्रूपमवश्यं प्रकटीभविष्यति । तदा प्रेमलालच्छी यधुद्वाहमस्वीकुर्यात्त धोमुखा वयमिदाssस्यं दर्शयितुमर्हां न भवेम । एतच्छ्रुत्वा मयोचे - राजन् ! चिन्तां न करोतु यथापूर्व देवीमागघयतु साऽवश्यं कमप्युपायं दर्शयिष्यति । ममोति श्रुत्वा राज्ञा मत्कृतः परामर्शोऽङ्गीच, तदचनश्चापि प्रारंभे । ततो देवी पूर्ववदाविर्भूयोवाचराजन् ! मां कथं वारम्बारमाह्वयसि ? बद्धाञ्जली राजा ब्रूते स्म -मातः ! मया विरोधे कृतेऽपि मन्त्रिणा कुमारस्योपयमो निर्धारिसोऽस्ति तत इदानीं मम लज्जारक्षणं श्रीमत्या एव शये किल विद्यते। यथा भवेत्तथा कुमारं निरामयं विधेहि, तदर्थमेव श्रीमत्यै कष्टं दमस्ति । कुलमातरं भवर्ती विना मम कष्टं को दूरीकरिष्यति ? देव्युवाच - राजन् ! प्राग्भवस्य वेदनीयकर्मणा तव कुमारो रुग्णोऽ स्ति, अतस्तत्कथमपि निवार्य न भवितुमर्हति परमुपायान्तरेण तवेमां चिन्तां निवारयिष्यामि । शृणु - विवाहघस्त्रे शर्वर्याः प्रथमयामे व्यतीते विमलापुर्या पूर्वगोपुरत आभाधीशो राजा चन्द्रः स्वविमातुः पत्न्याश्च पृष्ठतो गुप्तवेषेण प्रवेशं करिष्यति । तत्क्षणे तमाहूय