________________
श्री भूपेन्द्रसूरि - जैन साहित्य - पुष्पाङ्कः ८ साहित्यविशारद - विद्याभूषण - श्रीमद्विजयभूपेन्द्रसूरीश्वर - विरचितम्
श्रीचन्द्रराजचरित्रम् ।
तत्रादौ मङ्गलाचरणम्-शार्दूलविक्रीडित छन्दसि -
मुक्तिस्त्रीविलसद्विलासनिपुणं प्रोद्यद्दयादर्शकं, गीर्वाणासुर चक्रवर्तिमहितं श्रीनाभिराजाङ्गजम् । संसाराब्धिसुतारकं भगततेः संहारकं सर्वदा, दातारं सुकृतस्य सर्वजगतां भक्त्याऽतिवन्दामहे ॥१ ॥ लोके शान्तिविधायक जननतो मार्यादिभीतेर्भृशं यन्नामस्मरणात्सतां हृदि पदं शान्तिर्विधतेऽनिशम् । नाsहंकारमगान्मनागपि मनो यस्याऽमरैः सेविते, तं श्रीशान्तिजिनेश्वरं जनहितं भक्त्याऽतिवन्दाम ||२||