SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ - - AARA यदि राजा न भवेत्तदा नगरवासेन किया, १२ एव कथं न बसेम ।। । यता-राजानं प्रथम विन्देत, ततो भार्या ततो धनम् । राजन्यसति लोकेऽस्मिन्, कुतो भार्या कुतो धनम्॥३८॥ एतनिशम्य स सुबुद्धिमन्त्री नागरिकान सान्त्वयन्नुवाच-चिन्ता जहित, नगरं त्यक्त्वाऽन्यत्र गमनेनाऽलं, मासाऽनधितो | मयाऽपि स नो दृष्टः, तथा युष्माकमिवाहमपि सदिक्षया लालायितो भवामि । अद्य राजमातुरन्तिकं गत्वाऽवश्यं तदन्वेषणं कृत्वा यथासमाचारं भवदुभ्योऽपि निवेदयिष्यामि, कृपया तावत्कालं धैर्यमाधत्त । इत्थं बोधिताः प्रजा विसृज्य मन्त्रिणा राजमातुरन्तिकमेत्य प्रजानां वार्ता निवेदिता जमावः । नगरे विविध वातावरण प्रसरति, राजमात्रा राजा गुप्तीकृत्य रक्षितोऽस्ति, परमेवं कियत्कालं गुप्त रक्षितुमर्हतीति ? यदि में कथनमन्यथा न मन्पेत, सदा शमख, सम्पक चामुं वृनं जानीहि, इदं राज्यकार्य, न बालकानां क्रीडनमस्ति, राज्ञोऽनुपस्थित्या प्रजासु महानसन्तोष उत्पद्यते । एवंजाते जनोपद्रवोऽपि संभाव्यते, महाराजस्य बहुकालिकाऽनुपस्थितावित्यमेव किम्वदन्ती असरिष्यति, अपि च शत्रवोऽपि प्रोत्साहिता भूत्वोत्थास्यन्ति । श्रीमती राजमातेति भक्त्या किमपि गुप्त नो वर्तते, कृपया कथयतु-महाराजचन्द्रः कुत्र वर्तते कदा च तदर्शन भविष्यति ! विलम्वेन प्रकटितेऽपि महाराजे सर्वत्राऽशान्त्या घोरकोलाहलो भविष्यति । भरती नानभिक्षा, एतत्सकलं वृत्तं शायत एव तथाऽपि पूर्वमेव भवती स्चयमस्मि, येन भविष्ये ममाऽपराधं न जानीयात् । ___ यता-अरैः संधार्यते नाभि- मी चारा प्रतिष्ठिताः । स्वामिप्रधानयोरेवं, वृत्तिचक्र प्रवर्तते ॥ ३९ ॥
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy