SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ नमस्कार व्याख्यायां 1140811 सिद्धिः, अथ दंडककरणे को विधिरिति प्रभे श्रम-दह व्यावहारिकनयवशात् ये असंख्येया जीवप्रदेशाः ते सर्वेऽपि बुध्या असंख्येया भागा निर्गच्छन्ति, असंख्येयभागोऽयतिष्ठते, ततस्तैरेव असंख्येयैर्जीवप्रदेशमागैः स्वशरीरान्निर्गतैर्हि दंडकमभिनिर्वर्तयतः अष्टा जीवमध्यप्रदेशान् सतितिकपरस्परावियोगिनी रुचकसंस्थितान् चक्रीवैडूर्यपटलयोरुभयो रत्नाद्यवस्थायिषु रुचकसंस्थितलोकमध्यप्रविष्टाष्टाकाशप्रदेशेषु संस्थाप्य चतुर्दशरज्ज्वायतं दंडकं कुर्वतीति । ततो द्वितीयसमये कपाटं कुर्वन्ति, तत्समय एव चौदारिकमिश्रकाययोगो भवति, कपाटकमिति कोऽर्थः १, कपाटभित्र कपाटकं, कउपमार्थः १, यथेोभयोः प्राक्प्रत्यन्दिशोस्तिर्थविस्तीर्य अपागुदग्दिशयो स्वमध्वधोदिशयोरुच्छ्रितं कपाटमिति शच्यते, तथा समुद्घातकरणवशाभिर्गतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्तरासु दिक्षु कपाटसंस्थानेनावस्थानात्कपाटकत्वसिद्धिः अथ कपाटकरणे को विधिरिति प्रश्ने महे, अतः प्रथमसमय निर्गतात्मप्रदेश सकाशात् यांऽसंख्येय भागोऽवशिष्टोऽवतिष्ठत इत्युक्तं स दया पुनरपि असंख्येयान् भागान् गतः, ततो द्वितीयसमये कपाटकारकाणां असंख्यया भागा निष्क्रामति, असंख्येय भागोऽवतिष्ठते, नैकैरसंख्येयैर्भागैर्निर्गतेरेतैः कपाटकं कुर्वन्ति, तत्र ये निर्गतास्ते प्रथमसमयनिर्गतान्मप्रदेशसकाशात् असंख्येयगुणहीनाः, असंख्येयभाग इत्यर्थः अथ तृतीयसमये प्रनरं कुर्वन्ति तत्सामयिकश्च कार्मणकाययोगां भवति, अथ प्रतरमिति कोऽर्थः १, प्रतरमित्र प्रतरं, क उपमानार्थः, यथा घननिचितनिरन्तरप्रचितावयवसंस्थितापरिवृत्तं स्थालक एफलकं वा लोके प्रतरमित्युच्यते तथाऽऽकारमपरमपि परस्परप्रदेशसंसर्गविच्छेदपरिवृत्तपर्यायेणावस्थितं प्रतरमिति प्रसिद्ध, अथ तृतीयममये प्रतरपूरकाणां को विधिरिति प्रश्ने प्रतिमहे, ततो द्वितीयसमये निर्गतात्मप्रदेशसकाशात् योऽसंख्येय भागो ज्वशिष्टोऽवतिष्ठत इत्युकं असावपि वृद्ध्या पुनरसंख्येयभागाः कृताः, ततस्तृतीयसमये प्रतरकारकाणाम समुद्घातः ॥ ५७१ ॥ 13
SR No.090462
Book TitleAgam 40 Mool 01 Aavashyak Sutra Part 01
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1985
Total Pages617
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_aavashyak
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy