________________
वरिष्यन्त्येव यतः प्राणिनां धर्म एव सर्वसुखखनिः, धर्मेण हि सुरसम्पदो भवन्ति । अत्रो धरायां सारभूतं धर्म ज्ञात्वा ययाविधि : स्वरित तं नियध्वम् । यता-विलम्बो नैव कर्तव्यः, आयुर्याति दिने दिने । न करोति यमः क्षान्ति, धर्मस्य त्वरिता गतिः ॥ ९८ ॥
पुनरनेकमययुतं मोगादिकं सर्व परित्यज्य निभयं परमसारभूतं वैराग्यधर्ममेव भजध्वम् । यत:-भोगे रोगभयं सुखे भयभयं वित्तेऽग्निभूभृद्भयं, माने म्लानिभयं जये रिपुभयं वंशे कुयोषिद्भयम् । दास्ये स्वामिभयं गुणे स्खलभयं काये कृतान्ताद्भयं, सर्व नाम भयं भवेदिह नृणां वैराग्यमेवाभयम् ॥१९॥ ___ मो भव्याः! बहुक्तेन कि? परभवे सुखोपलब्धये धर्मसंबलं गृहन्तु, यसोऽत्रापि संबलं बिना कोऽपि नरः कदापि पन्धानं नो गच्छति,तर्हि दीर्वादृष्टपरलोकमार्गस्यात्रैव सवलं किन्न गृहीतव्यम् ? यतो ग्रामान्तरं गच्छतः कुत्रापि पाथेयं मिलति, परत्र गन्तुस्तु नैव । यतः-प्रामान्तरे विहितसंबलका प्रयाति, सर्वोऽपि लोक हद्द रूविरिति प्रसिडा।
मूढस्तु दीर्घपरलोकपथप्रयाणे, पाथेयमानमपि नैव च लास्यधन्यः ॥२०॥ इति केलिनोधर्मदेशनाश्रवणानन्तरं सर्वे सभासदः केवलिनमभिवन्ध यथाशक्ति नियमम्रतानि च स्वीकृत्य स्वस्वस्थानं प्रति जग्मुः।
ततो राज्ञा पृष्टम्-हे भगवन् ! मया पूर्वभषे किं कर्म कृतं ? येन मे धोऽत्र नामीष्टो जातः, चानेन सचिवेन कीदृशं कर्म । कृतं ? येनेशी महती समृद्धिः पदे पदे प्राप्ता । ततः केवली पाह-हे राजन् ! युक्योः पूर्वमवसंबन्धिनिखिलवृत्तान्तो मया निग