________________
अस्मिन्काले सभागते सर्वोत्तमा अपि निजसम्पदोऽयैवाऽवतिष्ठन्ते, पुनरेकाक्येव जीवः सर्वमपहाय परलोकमार्गे गच्छति । तदुक्त - एतानि तानि नवयौवनगर्वितानि, मिष्टान्नपानशयनासन लालितानि ।
द्वारार्द्धहारमणिनूपुरमण्डितानि, भूमौ लुठन्ति किल तानि कलेवरणि ।। ८८ । अपि च- तोहरा युवतयः स्वजनोऽनुकूलः सबान्धवाः प्रणयगर्भगिरथ भृत्याः । गर्जन्ति दन्तिनिवास्तरलास्तुरंगाः, सम्मीलने नयनयोर्नहि किञ्चिदस्ति ॥ ८९ ॥ पुनरप्यस्मिन्संसारे कतिपयेऽञ्जाः सुखं मत्वा संतिष्ठन्ते परं शोकचिन्तादुःखादिदोषपरिपूर्णेऽत्र संसारे किं किमनि सुखमस्ति ? | यतः-दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रम्। | तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् निव्योधनचिन्तया धनपतिस्तद्रक्षणे चाकुलो, निःस्त्री कस्तदुपायसंगतमतिः श्रीमानपत्येच्छया । प्राप्तस्तान्यखिलान्यपी सततं रोगैः पराभूयते, जीवः कोऽपि कथंचनाऽपि नियतं प्रायः सदा दुःखितः ९१ तथा च- दारिद्र्याकुलचेतसां सुतसुताभार्यादिचिन्ताजुषां नित्यं दुर्भरदेहपोषणकृते रात्रिंदिवं खिद्यताम् | राजाज्ञाप्रतिपालनोद्यतधियां विश्रममुक्तात्मनां सर्वोपद्रवशं किमामय भृतां विग्देहिनां जीवनम् ९२ पुनरत्र वृावस्थायां स्वार्थे विना स्वलमास्तनयादयोऽप्यज्ञां कुर्वन्ति, तदवि मइत्कटमेव जनो मजति ।