________________
अथैकदा राजा मंत्रिणं प्रति वदति स्म - राज्यादिकं समस्तं पापेनैव भवति । तदा मंत्र्याह - भो राजमेवं मा ब्रूहि, पापफलन्तु प्रत्यक्षमस्मिन् लोके दृश्यते यतः-
अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियैः संप्रयोगश्च सर्वे पापविभितम् ॥ ११ ॥
कुग्रामवासः कुमरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या ।
कन्याहुत्वश्च दरिद्रभाव, एतान्यधर्मस्य फलानि लोके ॥ १२ ॥
खवायां मत्कुणा भूमौ गृहं च बालकावलिः | अर्केन्धनं यवा भक्ष्याः पापस्येदं फलं मतम् ॥ १३ ॥ अपि च- यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता, दारिद्र्यं स्वजनैश्व यः परिभवो मौर्य परप्रेष्यता । तृष्णालौल्यम निर्वृतिः कुशयनं कुस्त्री कुमुक्तं रुजा, सर्व पापमहीरुहस्य तदिदं व्यक्तं फलं दृश्यते ॥ १४ ॥ इत्थमेव पापसूचकं भाषायामपि काव्येनोक्तम् —
पापते जात रसातल मानव पापते अन्ध हुवे नर नारी,
पापते व्याधि रहे अपरंपर पापते भीख भ्रमंत भिखारी । पापले खान रुपान मिले नही पापते होत है देह खुवारी,
सूरिदया तजि पाप पराभव पुण्य करो मन शुद्ध विचारी ॥ १५ ॥