SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ एवं स श्रीसंघस्तीर्थस्तवनं विधाय शुद्धभावनां च विभाव्य तददन्तरं ततो निवर्त्तमानो मार्गे एकस्य मार्गस्थग्रामस्य समीपे स्थितः । अस्मिन् समये तेन मंत्रिणा गच्छता स एव संघो मार्गे विलोकितो, विलोक्य चातीव हृष्टेन तेन जयजिनेन्द्रे तिभगवन्नामनिगदनपूर्वक नमस्कारं विधाय तेन संधेन सह क्षेमकुशलादिवार्तालापो विहितः । ततस्तेन मंत्रिणा शास्त्रविचारदृष्ट्या महालाभ बुवा खपार्श्वस्थं कामघटानुभावं विदित्वा च शुद्धभावनयादिबहुमानेन सहर्षभरेण स्वामित्रात्सस्याय संघो निमंत्रितः । कुतः शास्त्रे संघभक्तिफलमेत्रमुक्तम् कदा किल भविष्यन्ति मगृहांगण भूमयः । श्रसंघचरणाम्भोज-रजोराजिपवित्रिताः ।। ६२ ।। रुचिरकनकधाराः प्रांगणे तस्य पेतुः प्रवरमणिनिधानं तद्गृहान्तः प्रविष्टम् । अमरतरुलताना मुनमस्तस्य गेहे, भवनमिह सङ्घर्ष यस्य पस्पर्श संघः ॥ ६३ ॥ प्राशं जन्मफलं जने निजकुलाचारः प्रकाशीकृतः, पुण्यं स्वीकृतमर्जितं शुचियशः शुभ्रा गुणाः ख्यापिताः । दत्ता दुःखजलाञ्जलिः शिवपुरद्वारं समुद्घादिनं यैः सिद्धान्तनयेन शुद्धमनसा श्रीसंघपूजा कृता ।। ६४ ।। तथा च- कल्पद्रुमस्तस्य गृहेऽवतीर्ण- खिन्तामणिस्तस्य गृद्दे लुलोठ | ` कथंभूतः स श्रीसंघो यथा--- त्रैलोक्यलक्ष्मीरपि तं वृणीते, गृहांगणं यस्य पुनाति संघः ।। ३५ ।। रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पंकेरुहाणामिव ।
SR No.090461
Book TitleKamghatkathanakam
Original Sutra AuthorN/A
AuthorBhupendrasuri Jain Sahitya Samiti
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & Conduct
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy