SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ चूर्णिमायापधुरी उ० ६२० २० विधानपरिसिधगम् १६५ इति षष्ठो मैदः। यतः सव्वत्य भगवया अणियाणया पसत्या सर्वत्र भगवता भनिदानता प्रशस्ता प्रशंसितेति ।। सू० १९ ॥ सम्प्रति कल्पस्थितेर्भेदान दर्शयितुमाह-'छविम' इत्यादि । सूत्रम्-छबिहा कप्पहिई पण्णत्ता तं जा-सामाइयसंजयकप्पट्टिई १. हेओरहावणियसंजपकप्पढिई २, णिविसमाणकप्पहिई ३, णिज्विटकाइयकपर्हिई ४, जिणकप्पट्टिई ५, घेरकप्पट्टिई ६ । ति बेमि ॥ मू० २० ॥ ____ कप्पस्स छठ्ठो उद्देसो समत्तो छाया - पइविधा कल्पस्थितिः प्रक्षता तद्यथा-सामायिकसयतकल्पस्थितिः १, छेदोपस्थापनीयसंयतकल्पस्थितिः २, निविंशमामकल्पस्थितिः ३, निविष्टकायिककल्पस्थितिः ४, जिनकापस्थितिः ५, स्थविरकल्पस्थितिः ६। इति प्रवीमि । २० २०॥ कल्पस्य षष्ठ उद्देशकः समाप्तः ॥६॥ चूर्णी-छविहा' इति । पइविधा पदप्रकारा कप्पहिई पण्णत्ता कल्पस्थितिः प्रज्ञाप्ता कथिता, तत्र कल्पे संयताचारे स्थितिरवस्थानमिति कल्पस्थितिः, अथवा कल्पस्य साधुसामाचारीलक्षणस्य स्थितिमर्यादा इति कल्पस्थितिः, सा पविधा प्रज्ञप्ता-निरूपिता । तानेय पइभेदान् दर्शयितुमाह-तं जहा इत्यादि, ते जहा तथथा- सामाइयसंजयकप्पट्टिई सामायिकसंयतकल्पस्थितिः, तत्र समो रागद्वेषरहितभावः-शानदर्शनचारित्रलक्षणभावः, तस्याऽऽयः प्राप्तिः, अथवा समय एव सामायिक सर्वसावधकर्मणां विरतिलक्षणम्, तत्प्रधानाः संबताः साधवः, तादृशसाधूनां स्थितिः सा सामायिकसंयतकल्पस्थितिः प्रथमा १, छेदोक्टावणियसंजयकापट्टिई छेदोपस्थापनीयसंयतकल्पस्थितिः, तत्र छेदनम् पूर्वपर्यायोच्छेदनम्, उपस्थापनीयमारोपणीयं यत् तत् छेदोपस्थापनीयम् न्यक्तितो महावतेषु आरोपणमित्यर्थः, ततश्च छेदोपस्थापनीयप्रधाना ये संयताः ते छेदोपस्थापनोयसंयताः साधवस्तेषां या कल्पस्थितिः सा छेदोपस्थापनीयसंयतकल्पस्थितिद्वितीया २, निव्विसमाणकप्पट्टिई निविंशमानकल्पस्थितिः, तत्र निर्विशमानाः परिहारविशुद्धि कल्पं वहमानाः, तेषां कल्पस्तस्य स्थितिनिर्विशमानकापस्थितिस्तृतीयो भेदः ३, निन्चिटकायइकप्पहिई निर्विष्टकायिककाल्पस्थितिः, तत्र निविष्टकायिको नाम येन परिहारविशुद्धिकं नाम तपो न्यूटम् , निर्विष्ट सेवितः विव. क्षितचारित्रस्वरूपः कायो-देहो यैस्ते निर्विष्टकायिका इति व्युत्पत्तेः, तेषां निर्विष्टकायिकानां कल्पस्थितिरिति निर्विष्टकायिककपस्थितिश्चतुर्थी ४ । जिणकप्पहिई जिनकल्पस्थितिः, तत्र जिनाः गच्छविनिर्गताः साधुविशेषास्तेषां जिनानां कल्पस्थितिरिति जिनकल्पस्थितिः पञ्चमी ५, थेरकप्पढिई स्थविरकल्पस्थितिः, तत्र स्थविरा आचार्योपाध्यायादयः गच्छसापेक्षाः साधुदि.
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy