SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ - - १५४ पारकरपत्र इरियावदियाए पलिमंथु ४, इच्छालोलुए मुत्तिमम्गस्स पलिमंधू ५, मिज्जाणियाणकरण सिद्धिमम्गस्स पलिमयू, सव्वस्थ मगवया अणियाणया पसत्या ६ ॥ सू० १९॥ __छाया-षट् कल्पस्य परिमन्थयः प्रणताः, तद्यथा-कौकुचिकं संयमस्य परिमन्युः १, मौस्त्रयं सत्यवचनस्य परिमन्थुः २, तितिणिकम् एषणागोधरस्य परिमन्युः ३, चक्षुलैल्यम् पेापथिकस्य परिमंथुः ४, इच्छालोलुप्यं मुक्तिमार्मस्य परिमन्थुः ५, मिथ्यानिदानकरणं सिद्धिमार्गस्य परिमन्थुः, सर्वत्र भगवता अनिदानता प्रशस्ता ६ ॥ सू० १९ ॥ चूर्णी-'छ कप्पस्स पलिमधू पन्नत्ता' इति । पद-पदसंख्यकाः कल्पस्य साधुसामाचारीलक्षणस्य परिमन्थवः-परिमध्नन्तीति परिमन्थवः घातका इत्यर्थः प्रज्ञप्ताः कथिताः । तानेव घड् मेदान् दर्शयितुमाह-तं जहा इत्यादि, तं जहा तद्यथा-कोकुइए संजमम्स पलिमंधू कौकुचिकं संयमस्य परिमन्धुः, तत्र-कौकुचिकम्-कुचेष्टा भाण्डचेष्टा वा, विकृतं मुखं कृत्वा लोकानामग्रतः प्रदर्शनम्, एतादृशं कौकुचिर्क संयमस्य चारित्रस्य परिमन्युः, कौकुचिकस्य कन्दर्पोदीपकतया संयमस्य मुतरामेव विघातकसंमवादिति, इति प्रथमो मेदः १। मोहरिए सच्चवपणस्स पलिमंधु मौम्वर्य मुखरता सत्यवचनस्य परिमन्युः, तत्र मुखरता वाचालता निरर्थकमधिकजल्पनम् सत्यवचनस्य परिमन्थुः, वाचालतायाः सत्यप्रतिबन्धकत्वादिति द्वितीयो भेदः । तितिणिए एसणागोयरस्स पलिमन्धू तितिणिकमेषणागोचरस्य परिमन्युः, तत्र तिति णिकं सर्वदा भिक्षाया अलाभे गृहस्वामिनं प्रति-कृपणोऽयम्' इत्यादिरूपेण तण-तण (बड़बड) शब्दकरणं तत्, एषणा-विशुद्धभक्तपानादि गवेषणरूपा, तत्प्रधानो यो गोचरः गोचरचर्या, तस्य परिमन्युरिति तृतीयो भेदः ३ । चक्खुलोलए इरियावहियाए पलिमन्यू चक्षुलील्यम् ऐपिथिकस्य परिमन्धुः तत्र चक्षुलाल्य नेत्रयोश्चाश्चल्यम् ईर्ष्यासमितेर्धातकम् चक्षुषश्वाञ्चल्येन मार्गे गमनसमये सम्यगवलो. कनाभावे संयमामविराधनसंभवात् ईर्यासमितेः स्वयमेव विधातादिति चतुर्थी भेदः | इच्छालोलुए मुत्तिमन्गस्स पलिमन्यू इच्छालोलुप्यं मुक्तिमार्गस्य परिमन्युः, इच्छालोलुप्यम् माहारादिवाच्छायां गृद्धिमावः, इति पञ्चमो भेदः ५।। मिज्जाणियाणकरण सिद्धिमगस्स पलिमन्थू भित्र्यानिदानकरणं सिद्धिमार्गस्य परिमन्थुः, भिध्या-लोभो गृद्धिरित्यर्थः, तशात निदानकरणम् , तच्च सिद्धिमार्गम्य परिमन्युः,
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy