SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ चूणिभाष्यावचूरी उ० ४ ० ३५-३६ तृणादिमयोपाश्रयनिषासविधिः ११७ न शक्यतेऽतस्तत्रोत्तरोतुं निषिद्धम् । तत्र ऋतुबद्धे काले मासकल्पे अपूणे वैयावृत्यादिकारणे सति यतनया मासमध्ये द्वित्रिकृत्वो गन्तुमागन्तुं कल्पते किन्तु स पूर्वोक्त उदकलेपो वर्षमध्ये नववारं न भवेदिति विवेकः कर्त्तव्यः यतो वर्षमध्ये नववारोदकलेपकरणेन निर्मन्यः शबळदोषमाग भवतीति बोध्यम् ॥ सू० ३३ ॥ पूर्व श्रमणानामष्वनि विधिः प्रतिपादितः, सम्प्रति वसतिविषयविधि प्रतिपादयितु. माइ-से तणेस वा' इत्यादि। सूत्रम्-से तणेसु वा तणपुजेसु वा पलालेसु का पलालपुंजेसु वा अप्पडेसु अप्पपाणेनु अप्पबीएम अप्पहरिएम अप्पुस्सेसु अप्पुर्तिग-पणग-दगमहिय-मक्कडगसंताणमेमु अहे सवणमायाए नो कप्पइ निगंयाण वा निग्गयीण वा तहपगारे उनस्सर हेमंतगिम्हामु यथए ॥ सू० ३४ ॥ __ छाया“अथ तणेषु वा तृणपुजेषु वा पलालेषु वा पलालपुजेषु वा मरूपाण्डेषु अल्पप्राणेषु अल्पबीजेसु अल्पहरितेषु अल्पावश्यायेषु अस्पोप्तिा-पनक-बकमृत्तिका-मर्कट. सन्तानकेषु अधः श्रधणमात्रया नो कल्पते निर्ग्रन्थानां धा निर्ग्रन्थीनां घा तथाप्रकारे उपाधये हेमन्तप्रीष्मेषु वस्तुम् ॥ २० ३५॥ चूर्णी-'से तणेमु वा' इति । 'से' इति मथ-तृणेषु वा शुष्कघासादिषु, तृणपुजेषु वा शुकघासादिसमुदायेषु, पलालेषु वा-शाल्यादिपलालेपु, पलालपुजेषु वा शाल्यादिपलालसाहेषु, कोशेषु तेषु ! इत्याह-अल्पाण्डेषु अल्पशब्दस्यात्राभावार्थकतया पिपीलिकादीनामण्डकादिरहितेषु, अम्पप्राणेषु-दीन्द्रियादिप्राणिवर्जितेषु, अल्पवीलेषु-अनङ्कुरितशाल्यादिवीजरहितेषु, अल्पहरितेषु-अङ्कुरितोदिन्नबीजरूपहरितकायवर्जितेषु, अल्पावश्यायेषु-अवश्यायो हिमकणस्तदहितेषु, अल्पोत्तिक-एनक-दकमृत्तिका-मर्कटसन्तानकेषु, तत्र उत्तिङ्गः-कीटिकानगरम् , पनकःपञ्चवर्णः साङ्कुरोऽनङ्कुशे वाऽनन्तवनस्पसिकायविशेषलक्षण:--'लीलण-फूलण' इति भाषाप्रसिद्धः, दफमृत्तिका-सचित्तो मिश्रो वा कर्दमः, मर्कटः कोलिकलक्षण: 'मकड़ी' इति भाषाप्रसिद्धः, तेषां सन्तानकम् जालकम् तद्रहितेषु अपि तृणादिषु इति पूर्वेण सम्बन्धः, अधः श्रवणमात्रया सूत्रे भापत्त्वात्पञ्चम्यर्थे तृतीया तेन श्रवणमात्रात् कर्णद्वयप्रमाणादधस्ताद वर्तमानेषु तृणादिषु सरमु कर्णप्रमाणादधो यत्र छादनतृणादीनि भवन्तीत्यर्थः, तथाप्रकारे तथाविधे उपाश्रये नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा हेमन्तप्रीमेषु-हेमन्तादिग्रीष्मपर्यन्तेषु ऋतुबद्धेषु अष्टमु मासेषु वस्तुम्-अवस्थातुं न कल्पते इति पूर्वेण सम्बन्धः, तथा च अण्ड-प्राण-बीज-हस्तिकाया-वस्यायोतिङ्गादिसचित्तवस्तुवर्जिलस्वात् शुद्धेऽपि उपाश्रये यदि मस्तकादधस्तात् माच्छादनतृणादीनि भवेयुस्तदा तस्मिन्नुपाश्रये ऋतुबद्धकालेषु निम्रन्थनिर्मन्थीनां वस्तुं न करूपते इति भावः ॥ सु. ३४॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy