SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ છે व्यवहारसूर्य भाष्यम्- 'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद भिक्षुः 'चाउम्मा सियं वा' चातुर्मासिकं वा साइरेगचाम्पासियं वा' सातिरेकचातुर्मासिकं वा मासे अतिरेकता आधिक्यं दिवसादिभिः क्वचित् पञ्चरात्रिन्दिवैः क्वचित् दशरात्रिन्दिवैः क्वचित् पक्षेण, विंशतिदिनैः, पंचविंशतिदिवसात्मक्रभिन्नमासैर्वा भवति । पंचमासिय वा' पाञ्च मासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपञ्चमासिकं वा, मन्त्राऽपि सातिरेकता पञ्चदिनादारम्य भिन्नमासात्मिकैव ज्ञातव्या । 'एएसिं' एतेषां चातुर्मासिक-सातिरेक चातुर्मासिक-पाञ्चमासिक-सातिरेक पाञ्च मासिकानाम् 'परिहारहाणा' परिहारस्थानानां पापस्थानानां मध्ये 'अन्नयरं परिहारद्वाणं पडिसेवित्ता' मन्यतरत् एतेषु यत् किमप्येकं परिहारस्थानं प्रतिसेग्य यदि 'आकोएज्जा' मालोचयेत् पापापनोदनाय आचार्यसमय प्रकाशयेत् तत्र अपलिचिय आलोएमाणस्स' सप्रतिकुभ्य मायामकृत्वा निष्कपटो भूत्वेत्यर्थः आलोचयेत् आलोचनां कुर्यात् तदा तस्य तथाविधस्य प्रतिसेवकस्य 'चाउ - मासिगं चा' चातुर्मासिकं वा यत्प्रतिसेवितं तदेव 'साइरेगचाउम्मा सियं वा' सातिरेक चातुर्मासिकं वा पञ्चदिवसाद्यधिकं चातुर्मासिकं प्रायश्चित्तं दद्यात् । 'पंचमासियं वा' पाश्चमासिकं प्रायश्चितं यावन्मात्रं प्रतिसेवितं तावन्मात्रमेव, 'साइरेगपंचमासियं वा' सातिरेकपश्चिमासिकं वा पश्चदिवसाद्यधिकं पाचमासिकं प्रायश्चित्तं दद्यात् । 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य कपटं कृत्वा आलोचयतः प्रतिसेवकस्य 'पंचमासियं वा' चातुर्मासिकपरिहारस्थानसेवने पाञ्चमासिकं प्रायश्चित्तं दातव्यम्, तत्र च चातुर्मासिकस्य प्रतिसेवनानिमित्तत्वात् मासाधिक्यस्य च मायापराधजनितत्वात् । 'साइरेग त्रमासि वा' सातिरेकपाञ्च मासिकं वा सातिरेकचातुर्मासिकपापस्थाने सेविते सति सातिरेकपाञ्चमासिकं प्रायश्चित्तं दातव्यमित्यर्थः । 'छम्मासिय बा' षाण्मासिकं वा पाञ्च मासिक सातिरेक पाश्चमासिक पापस्थानप्रतिसेयकस्य सकपटमालोचयतस्तस्म पाण्मासिकं प्रायश्चित्तं दातव्यमित्यर्थः । ' तेण पर' तेन ततः तस्मात् षाण्मासिकात् परिहारस्थानात् परं परस्मिन् सप्ताष्टादिके परिहारस्थाने प्रतिसेविते प्रतिसेवकस्य 'पलिउंचिए वा अपलिउंचिए चा' प्रतिकुञ्चिते सकपटे, मप्रति कुश्चिते निष्कपटे वा प्रतिसेवके 'से चैव छम्मासा' ते एव पण्मासा एतदधिकप्रायश्चित्तस्य विधानाभावात् ।। सू० १५ ।। 1 achie सूत्रम् - जे भिक्खु बहुसोनि चाउम्पासियं वा बहुसोवि साइरेगचाउम्पासियं बा बहुसोवि पंचमासि वा बहुसोवि साइरेगपंचमा सियं वा, एएसिं परिहारद्वाणाणं अमरं परिहारद्वाणं पडिसेवित्ता आलोएना अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगनाउम्मासि वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचिय आलोएमाणस्स पंचमासि वा साइरेगपंचमासि वा छम्मासियं वा तेण परं पलिउंचिए वा अपटिउंचिए वा ते वेब छम्मासा ॥ ० १६ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy