SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ व्यवहार पाप्मासिक वा पाञ्चमासिकप्रायश्चित्तस्थाने मायापराधजनितं पाण्मासिकं प्रायश्चित्तमेकमासायिक दद्यात् । मायापराधनिमित्तावेन हेतुना सर्वत्र मासाधिक्यं दद्यात् । यथा-यदि मासिकं पापस्थान सेवितं सकपटं चालोचयितुमाचार्यसमीपे स्थितस्तस्मै दैमासिक सघुकं गुरुक वा प्रतिसेवनानुसार प्रायश्चित्तं गुरुर्दयात् । यदि का द्वैमासिक परिहारस्थानं प्रतिसेव्य सकपटमालोचयितुमुपस्थितो भवति, तदा तस्मै श्रेमासिकं दद्यात् । यदि वा त्रैमासिक परिहारस्थानमासेवितं सकपटं चालोचयितुमुपस्थितः तदा तस्मै चातुर्मासिक दद्यात् । चातुर्मासिकं प्रतिसेवितं तस्मै पाञ्चमासिकं प्रायश्चित्तं दद्यात्। पाञ्चमासिकं पापस्थानं सेवितं मायापूर्वकमालोचयितुमुपस्थितस्तस्मै पाण्मासिकं प्रायश्चित्तं दद्यात् । एवं क्रमश एकैकमासस्याधिकं प्रति कुञ्चनानिमित्त प्रायश्चित्तं . दद्यात् , इति । 'तेण परं' ततः परम् , ततः पाञ्चमासिकात् परिहारस्थानादूर्व पाण्मासिकादिपापस्थानप्रतिसेवक मालोचनाकाले 'पलिउचिए अपलिउंचिए वा' प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा मायापूर्वकं मायारहितं वा मालो. चिते 'ते चेव छम्मासा' त एवं प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तं प्रायश्चित्तम् , वईमानस्वामिशासने एतादृशस्यैव जीतकल्पस्य विधानात् , अन्यान्यतीर्थकरशासने न्यूनाधिकमपि प्रायश्चिनं भवति, यथा ऋपमतीर्थकरस्य द्वादश मासाः, वर्द्धमानस्वामिनः षण्मासाः । शेषाणां द्वाविंशतितीर्थकराणां तीर्थे अष्टौ मासा इति । इदानी तु वईमानस्वामिनः शासनम् , तस्य तूत्कृष्टं तपः पाण्मासिकमेव. ततोऽस्य तीर्थ सर्वोत्कृष्टमपि प्रायश्चित्तदानं षण्मासा एवेति पाण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुच्चनयाऽऽलोचयतोऽपि नाधिकमारोपणम् , मतस्त एव षण्मासाः प्रोक्ता इति ।। सू० १३ ॥ सूत्रम् -जे मिक्खू बहुसोवि मासियं वा बहुसोवि दोमासियं वा, बहुसोचि तेमासिय स, बहुसोवि चाउम्मासिय वा, बहुसोवि पंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेविचा आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा, दोमासियं चा, तेमासियं वा, चाउम्मासिय वा, पंचमासियं वा, पलिउंघिय आलोएमाणस्स दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, छम्मासिय वा, तेण परं पलिउँचिए वा, अपलिउंचिए वा, ते बेब छम्मासाः ॥ २०१४ ॥ छाया-यो भिक्षुर्बहुशोऽपि मासिक घा, बहुशोऽपि द्वैमासिकं वा, बहुशोऽपि त्रैमासिक वा, बहुशोऽपि चातुर्मासिफ वा, बहुशोऽपि पाञ्चमासिकं वा, पतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेक्य आलोषयेत् . मातिकमध्य आलोचयता मासिकं वा, द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाश्चमासिके वा, पाण्मा. सिकं या, सेन परं प्रतिफुञ्चिते घा, अप्रतिकुश्चितेवा, त पक्ष पण्मासाः ।। २० १५ ॥
SR No.090460
Book TitleVyavaharsutram Bruhatkalpasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_bruhatkalpa, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy