SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ कर्णे वाणेष्विव गतेध्येषां वाक्येषु भूपतिः । कोपात् सर्वाभिसारेण तं प्रति प्रास्थित द्रुतम् ॥ १३१ ॥ सुदारुणं रणं कृत्वा, जगदाश्चर्यकारणम् । बद्धः पाशेन भूपेन, सूरतेजाः प्रजापतिः ॥ १३२ ॥ दीनाननः पदोरमे, स शत्रुस्तेन पातितः । अब्रवीत्ते धरिष्यामि, वेलां वेलाधराद्रिवत् ॥ १३३ ॥ तं मोचयित्वा सञ्चके, भ्रूशक्रः सकृपाशयः । सरणिमनवित्तानामयमेव विजृम्भते ॥ १३४ ॥ सोऽपि पीनस्तनाभोगां, स्पेरपङ्कजलोचनाम् । देवीमिव भुवं द्रटुमवतीण कुतूहलात् ॥ १३५ ॥ निर्मालितरतिप्रीतिं, रूपनिर्जितरुक्मिणीम् | यशोमत्यभिधां पुत्री, स्वां राज्ञा पर्यणाययत् ॥१३६॥ युग्मम् । तदाज्ञां मस्तके रक्षामित्र धृत्वा खपत्तने । सूरतेजा ययौ का हि स्पर्द्धा शौण्डीर्यशालिषु १ ॥ १३७ ॥ उत्पताकां तक्षशिलां, स प्रविश्य निजां पुरीम् । एकच्छत्रं महीचक्रं, चक्रीव प्रत्यपालयत् ॥ १३८ ॥ प्रेयसीभिश्चतसृभिर्बु सदामिव नायकः । महाभोगान् मुदाभोगान सेवत नृपोत्तमः ॥ १३९ ॥ प्रत्येकं तासु कान्तासु, राजा पुत्रान| जीजनत् । सागरानिव गम्भीरान् ससारान् भूधरानिव ॥ १४० ॥ चत्वारोऽपि हि चातुर्यवर्यशौर्यदयोल्वणाः । लावण्यपुण्याः संवृत्ता, माधवस्येव वासराः ॥ १४१ ॥ अथ तस्य महीशस्य, वैशद्ययुजि मानसे । विललास विषेकाख्यो, मरालो विश्वहर्षकृत् ॥ १४२ ॥ तस्मिंश्व जाते दध्यौ स राजा किं पूर्वजन्मनि । निरमाथि भया पुण्यं १, राज्यान्येतानि यत्फलम् ॥ १४३ ॥ अत्रान्तरे रयादेव, समेत्योद्यानपालकः । नमन्मौलिः सभासंस्थं, राजहंसं व्यजिपत् ॥ १४४ ॥ देवाद्य नन्दनोद्याने, धर्मघोषोऽभिधानतः । चतुर्ज्ञानधरः सूरिशेखरः समवासरत् ॥ १४५ ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy