SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ * * लिया, इरेह सिद्धिं परिपड, लीलया ॥ १॥ संवेगविषये दवदन्तकथा, द्वितीयं संवेगाख्यं सम्यक्त्वलक्षणमुक्त्या तृतीयं निर्वेदाह्र सम्यक्त्वलक्षणं गाथापूर्वार्द्धनाह निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स । । व्याख्या-त्वरित' शीघ्रं 'संसारचारकगृहस्य' भवकारागारस्य त्यागेच्छा निर्वेद इति । सम्यग्दर्शनी हि दुःख-2 दौर्गत्यगहने भवकारासदने कर्मदण्डपाशिकैस्तथा तथा कदीमानः प्रतिकर्तुमक्षमो ममतारहितश्च दुःखेन निर्विष्णो भवति, उक्तं च–नारयतिरियनरामरभवेसु निधेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य* ॥१॥ अन्ये तु संवेगस्यार्थविपर्ययमाहुः-संवेगो भवविरागः, इति गाथापूर्वार्द्धार्थः, भावार्थस्तु हरियाहनकथया कथ्यते तथाहि भोगिभिर्विहितावासाऽनन्तभोगविभासिता। भोगावतीव सश्रीका, भाति भोगावती पुरी ॥१॥ गवाक्षलक्षनि-2 ५ गच्छद्भूपधूमोर्मिसन्ततिम् । वीक्ष्य व्योग्यम्बुभ्रान्त्या, यत्र नृत्यन्ति केकिनः ॥२॥ दुर्दान्तारातिभोगीन्द्रपक्षीन्द्रो*पमविक्रमः । सुरेन्द्रजित्वरैश्वर्यस्तत्रासीदिन्द्रदत्तराट् ॥ ३॥ मणिप्रभाभिधा तस्य, पत्नी सञ्छीलशालिनी । हरिवा हनवत्ख्यातः, पुत्रोऽस्या हरिवाहनः ॥ ४ ॥ तत्रैव हि पुरे सूत्रधारो मन्दरनामकः । तखापि तनयो विज्ञो, नरवा-13 हनसंज्ञकः ॥ ५॥ श्रेष्ठिनो वसुसारस्य, तनुभूश्च धनजयः । त्रयोऽपि राजपुत्राद्यास्ते मित्रत्वं मिथोऽभजन् ॥ ६ ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy