________________
-
भूयन्ते महात्मानः, यतः-बुद्धिविहवाइगनो, तुच्छाणं होइ न उण गरुयाणं । वीरोवहिणो दुद्धं, छालिदुद्धं व नुप्फिणइ ॥ १॥ ततः क्षितिपतिमहोत्सवपुरस्सरं सूरीन् पुरे प्रवेश्य वयं सपौरजनपदः श्रीमदर्हद्धाराधनसा-8 |वधानः समभूत् । सूरयोऽपि श्रीजिनशासनसाम्राज्यमेकच्छमासूत्रयन्तस्तत्रैव तस्थिवांसः। अन्यदा भृगुकच्छात्सङ्घरनुज्ञातं यतिसङ्घाटकं सूरीनाह्वातुमियाय । तेनाऽऽर्यखपटाचार्याः सहविज्ञप्तिमिमां श्राविताः कश्चिदविपश्चिद्विनेयः । कपरिकास्थितान्यागमपत्राणि द्रव्यानुयोगरहस्यमयानि सहसोपादाय वाचितवान्, तत्रस्थामावृष्टिविद्यां स्वयहै। मभ्यस्य तथा कल्पलताकल्पया सरसरसवत्सादिकमानीयानुदिनं भुजानो गीताथैवार्यमाणोऽपि रसगृध्नुः कुधं विधाय | बुद्धमते स शटोऽगात् , स तदाश्रयमाश्रितस्तदायिणां पात्राणि नभोमार्ग प्रेषयित्वा विविधभक्ष्यभोज्यभृतान्या-| नीय च सौगतानां भुजिक्रियां सूत्रयामास यतिपाशः । तदेतस्यामानं महिमानं वीक्ष्य गतानुगतिकतया सर्वापि । जनता सौगतमतानुगतिका संवृत्ता, जैना अप्यहिकफललिप्सवः केऽपि तन्मतमूरीचकुः । तस्मादेतज्जनशासनपराभवमेत्यापाकुरुध्वं नाध्वनीना अपरे साधवोऽस्मिन्नध्यनीति सङ्घादेशमासाद्य संद्य एव सूरयस्तेनैव साधुसङ्घाटकेन समं समन्ततो जिनशासनप्रभावनार्थ विपक्षानार्थे च भृगुकच्छपुरमेत्य दुष्टशिष्यप्रहितपात्राणि भक्ष्यपूर्णानि नभोवर्ल्सना प्रत्यावृत्तानि गुरुतरगुरुकल्पितेषु व्योमस्फटिकशिलातलेवास्फालितानि मुद्गराहतघटवत्सहस्रं खण्डीभूतानि भूमावपातयन् , सोऽप्रशस्यशिष्योऽपि खप्रहितपात्रभरुन गुरूणामागमनं मत्वा काकनाशं ननाश ।