SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ इह व्यवहारचूर्ण्यादौ चतुर्दश्याः साक्षात् पाक्षिकत्वे दृश्यमाने पूर्णिमायाश्च काsपि आगमे साक्षाद् अदृश्यमानेऽपि ग्रन्धकृता आगमोक्तानि पूर्णिमायां इति यदुक्तं तन्न ज्ञायते केनाऽपि अभिप्रायेण सम्प्रदायेन वा इति, परं एतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववद् आचरित लक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीनि अपि प्रमाणीकृतानि एव सन्तीति ॥” पुनस्तपागच्छीयश्रीरत्नशेखरसूरिभिः स्वकृतश्राद्धविधिकौमुद्यां अपि पञ्चधा प्रतिक्रमणस्य स्थानानि दर्शयद्भिः पाक्षिकप्रतिक्रमणं पक्षान्ते प्रोक्तं ( ४१० पत्रे ), तथाहि तच्च प्रतिक्रमणं पञ्चभेदं दैवसिकं १ रात्रिकं २ पाक्षिकं ३ चातुर्मासिकं ४ सांवत्सरिकं ५ चेति एतेषां काल उत्सर्गेण | एवमुक्त:- "अद्धनिवुड्डे बिंबे सुतं कति गीअत्था । इयवयण पमाणेणं देवसिआवस्सए कालो ॥ १ ॥” रात्रिकस्य एवं "आवस्तयस्स समए, निद्दामुद्दे चयंति आयरिया । तह तं कुणंति जह दिसि पडिलेहाणंतरं सूरो ॥ २ ॥" अपवादस्तु देवसिकं दिवसतृतीयप्रहरादनु अर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ तु मध्याह्लादारभ्य अर्द्धरात्रं यावत् इत्युक्तं, रात्रिकं अर्द्धरात्रादारभ्य मध्याहं यावत् । उक्तं च-" उघाडा पोरसिं जाव, राइ अवस्सयचुण्णीए चैव । ववहाराभिप्पाया, भणति पुण जाव पुरिमनुं ॥ ३ ॥ पाक्षिक १ चातुर्मासिक २ सांवत्सरिकाणि ३ तु पक्षायन्ते च स्युः”, इत्यादि । ॥ इति पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदिति विचारः ॥ ८ ॥ ननु - आत्मगच्छीय साधुप्रमुखाणां कसेलकेन वर्णान्तरप्राप्तस्य पानीयस्य ग्रहणे प्रवृत्तिः भूयसी दृश्यते सा किं सिद्धान्तादिमूला १, किं वा स्वगच्छपरम्परायाता ? उच्यते-सिद्धान्तादिमूला एच, कथमित्याह श्रीकल्पसूत्रवृचौ सन्देहवि 87
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy